पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] तृतायमिथ्यात्वनिरूपणम् 103 व्याप्यधर्मेण ज्ञाननिवर्त्य संशये अतिव्याप्तिरीति सर्वमवदा- तम् ।। इति तृतयिमिथ्यात्वविचारः. च चाक्षुषत्वादिना तथेत्याग्रह; तथापि यद्विशेषयोरिति व्याप्तया साक्षात्कारत्वेनाऽपि निवर्तकत्वं शुद्धविषयक साक्षात्काराज्ञानत्वाभ्या- मपि विशेषतो नाशकनाश्यभावः स्वीक्रियते । एतेन ब्रह्मसाक्षात्का- रेणेव शुक्तयादिस्पार्शनेनापि तत्त्वज्ञानेन विनैवचाक्षुषादितत्त्वज्ञानं चाक्षुषादिभ्रमो निवर्त्यतामिति परास्तं, शुद्धविषयकसाक्षात्कारसविक- ल्पकृचाक्षुषाद्यन्यतमविशेषकारणसहकृतस्यैव साक्षात्काररूपसामान्यका- रणस्य फलोपघायकत्वात् । “सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति " इति तु चाक्षुषत्वेनैव निवर्तकत्वबोधकं साक्षात्कारत्वेन उपादान- प्रत्यक्षप्रयुक्तमपि प्रवृत्त्यादिकं न निवृत्तिः प्रागभावानङ्गीकारात् । अतो न प्रवृत्त्यादिप्रागभावे सिद्धसाधनम् । नचैवं लक्षणे निवृ- त्तिनिवेशे संशयनिवृत्तेः निश्चयाप्रयुक्तत्वान्नापीत्यादिकमसंगतमिति वाच्यं, साक्षात्कारत्वोक्तिपक्ष एव निवृत्तिनिवेशात् । अतएव तदित्य- नुक्ता ज्ञाननिवर्त्यत्वमित्युक्तम् । प्रागभावस्वीकारे तु स्वसमानविषयक- त्वसम्बन्धावच्छिन्न प्रयोजकताकविरहप्रतियोगिकत्वमेव वाच्यम् | ज्ञानं हि तत्सम्बन्धेन अज्ञाने सन्निवृतिप्रयोजकं न तूपादान प्रत्यक्षादिकम् । तत्पक्षे स्मृत्या संस्कारनाशास्वीकारे साक्षात्कारत्वप्रयोजक' चिन्त्यम् । अज्ञानव्याप्यस्य निवृत्तिरप्यज्ञाननिवृतिद्वारा तादृशीति दिक् ॥ इति तृतीयमिथ्यात्वनिरूपणम् 1 प्रयुक्तमिति पा 7 प्रयोजनं. पा.