पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्व मिथ्यात्वनिरूपणम् 115 विकल्प:' इति पातञ्जलसूत्रादीविरोधः, स्वलक्षणस्य च विकल्पागो- चरत्वादिति बौद्धाधिकारीयवाक्यादिविरोधश्च । असतः सदसम्बन्बन्ध बौद्धाधिकारादौ स्पष्ट उक्तः । तस्मादसतः सत्सम्बन्धं वदन् बौद्धा- दपि बौद्ध इत्युपेक्षणीय इति, स्वव्याघातकत्वाद्यावश्यकत्वात् । न च भेदः किं भिन्ने उताभिन्ने इत्यादि त्वदुक्तिरपि जातिरिति वाच्यम्; मम वैतण्डिकतामाश्रित्य तदुक्तौ जातित्वासम्भवात् स्थापनीयाभा- वेन स्वव्याघातकत्वाद्यभावात् त्वदीयरीतिमाश्रित्य त्वां प्रति मिथ्या- त्वानुमानाद्युपन्यासात् । खण्डनयुक्तीनां सर्वप्रमाणबाघकत्वस्यास्मदि- ष्टत्वेऽपि स्वप्रकाशचिन्मात्रस्य अस्मत्सम्मतस्य केनापि बाधासम्भवात् साक्षित्वात्तादृशमानाभावाच्च । तदुक्तं खण्डने - अभीष्टसिद्धाबपि खण्डनानामखण्डि राज्ञामिव नैवमाज्ञा | तत्तानि कस्मान्न यथावदेव सैद्धान्तिकेप्यध्वनि योजयध्वम् || इत्यादिकमभिप्रेत्याह-कृतमधिकेनेति । यत्तु – “तत्र हि विरुद्धयोरेक- मिथ्यात्वे अपरसत्यत्वं यत्र मिथ्यात्वावच्छेदकं नोभयवृत्ति सत्यत्वमि- थ्यात्वयोश्च निषेध्यतावच्छेदकं दृश्यत्वाद्येक मित्ययुक्तम् ; परस्परविरह- योरेकरूपेण निषेधस्य क्वाप्यदर्शनात् । विषमसत्ताकत्वेन तयोः अवि- रोध इत्यपि न । तयोर्हि विषमसत्ता रूप्ये जगति वा, नाद्यः; रूप्यमिथ्यात्वं तात्त्विकमित्यग्रिमत्वदुक्तिविरोधात्, रूप्यमिथ्यात्वस्य बाध्यत्वे रूप्यसत्यत्वस्य तात्त्विकत्वापत्तेः । नान्त्यः ; अप्रातीतिकस्य जगतो व्यावहारिकमिथ्यात्वे तात्त्विक त्वापत्तेः । सत्यत्वमिथ्यात्वयो; समुच्चयस्तु अत्यन्तायुक्तः सत्त्वासत्त्वसमुच्चयभीत्या त्वयाऽपि सदस- द्वैलक्षण्योक्तेः । उक्तं च बौद्धाधिकारे –'सदसत्त्वस्यैकत्र विरोधेन विधिवन्निषेधस्याप्यनुपपत्तेः' इति । संयोगतदाभावौ च न हृष्टान्तः, , 1 त्वदुक्की. 2 मिथ्यात्वेनातात्त्विक.

  • 8