पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

117 देशकालगतात्यन्ताभावप्रतियोगित्वरूपं त्वदीया सत्त्वं प्रातीतिकसत्त्वं प्र रूप्ये समुच्चीयत एव, प्रतीयमानत्वात् ; अस्मदीयाभ्यां सदसद्भ्यां वैक- क्षण्यं विनाऽख्यातिबाधयोः रूप्येऽनुपपत्तेश्च । बौद्धाधिकारीयादुर- यनाचार्यवाक्या असख्यातिवादिनां त्वादृशानामेव भीः, तन्निरा- करणार्थमेव तत्प्रवृत्तेः । नास्माकं भी: ; अस्मन्मते सर्वमतमूर्धन्यता- स्योदयनाचार्यैरुक्तत्वात् अस्मन्मतस्य पुरस्कारे तत्तात्पर्यादिदूषणे व तत्तात्पर्याभावात् । न ग्राह्यभेदमवधूय घियोऽस्ति वृत्तिः तद्बाधके बलिनि वेदनये जयश्रीः । नो चेदनित्यमिदमी दृशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः || इति तदीयश्लोके क्षणिकविज्ञानातिरिक्तार्थापलापिविज्ञानवादिशून्य- तावादिमतयोः दूषणोपसंहारपरे ज्ञानादत्यन्त विलक्षणार्थमपलप्य' ज्ञान- स्वीकारो न सम्भवति, अनुभवादिविरोधात्; तस्य प्रायमात्रस्य बाघके ज्ञाने चित्तशुद्धिश्रवणादिपरिपाकेन दृढे सति वेदनये वेदान्त- दर्शने सङ्कोचकाभावात् सर्वमतापेक्षया बलिनि जयश्रीः यद्विषयक - ज्ञानं बाधकं तत् नित्यमेकं स्वप्रकाशानन्दस्वरूपं मोक्षान्वयि, लाघ- वात् । तस्य च न बाध्यत्वं, सर्वसाक्षित्वात् । यदिचोक्तपरिपा- काभावादुक्तबाघकाभावः तदा दृश्यमात्रं व्यवहारकालाबाध्यरूपव्या- वहारिकतथ्यं तत्रापाततः कदाचित्तार्किकादिभिः तत्तात्विकमिति वक्तुं शक्यम् । तदलीकमिति तथागतस्य बौद्धस्य मतं तु निरव- काशमित्यर्थस्य स्फुटत्वात् । न च दूष्यबौद्धमतस्य प्रस्तुतत्वात्तदपे- क्षया बलित्वमुदयनैः विवक्षितमिति वाच्यम्; तथा सत्यस्मन्मत- प्रकटनपूर्वकं तस्य स्वापकर्षोक्तययोगात् । तथाहि —“ अस्तु 1 विलक्षणत्वमालम्ब्य. 2 तत्रापततः न. परिच्छेदः , मिथ्यात्वमिथ्यात्वनिरूपणम्