पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां दृश्यत्वनिरुक्तिः ननु मिथ्यात्वे साध्ये हेतुकृतं यदृश्यत्वं तदप्युपपा- दुनीयम् । तथाहि – किमिदं दृश्यत्वं वृत्तिव्याप्यत्वं वा -- 120 उष्णत्वानाधारवृत्त्यनुष्णत्वसाध्यकस्थले तत्सम्भवात् । शुद्धानुष्णत्व- साध्यकस्थले बाधाभावस्त्विष्टः, तव संयोगाभावसाध्य कस्थलवत् । अत एवं व्यावहारिकमभावमादायापि बाधव्यवस्था न विरुद्धा, समसत्ता- कयोः भावाभावयोः विरोधपक्षे वा सोक्तेति न कोपि दोषः || सारस्वतैः तर्करलैः चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तखण्डानां भग्ना मिथ्यात्वसत्यता ॥ इति मिथ्यात्वस्य मिथ्यात्वनिरुक्तिः. [ प्रथमः वृत्तिव्याप्यत्वमिति । व्याप्यत्व सम्बन्धेन वृत्तित्वेन हेतुता । व्याप्यत्वं च स्वजनकेन्द्रियसंयोगादिरूपं, परोक्षवृत्ते: स्वप्रयोजक- व्यापकतावच्छेदकादिरूपं, भ्रमवृत्तेः स्वजनकदोषजन्यत्वादिरूपं, वृत्ति- मात्रस्य स्वावच्छिन्नचैतन्याभिन्नमहाचैतन्यव्यक्तिप्रतियोगिकं तत्तद्विषय निष्ठं तादात्मयं वा; अनुमित्यादिवृत्तेरपि स्वावच्छिन्नचैतन्याभिन्नमहा- चैतन्यव्यक्तिप्रतियोगिकं वहयादिनिष्ठं तादात्म्यमस्त्येव तावदन्यत- मंत्वेन सम्बन्धत्वात् नाननुगमः । न चातिरिक्तविषयतैवास्तु तद- नङ्गीकारे उक्तान्यतमत्वविशिष्टसम्बन्धेन कारणत्वादिकल्पने गौरव- मिति वाच्यम्; तस्या दूष्यत्वात्, उक्तसंयोगादेरेव सम्बन्धत्वस्य वक्ष्यमाणत्वात् क्ऌप्तेनैव निर्वाहे अतिरिक्तकल्पने गौरवात् । उक्तान्य- तमत्वस्य स्वरूपतोऽवच्छेदकत्वे गौरवात् || 1 • वृत्तित्वं च धीर्भीरित्यादिश्रुत्यनूद्यमानः संस्कारेच्छादिजनक- तावच्छेदकतया सिद्धो धीत्वरूपो जातिविशेषः । अन्यथा तत्तद्विष- 1 तड्याप्यत्व. 2 वृत्तिश्च.