पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

122 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां प्रकाशत्वं वा । नाद्यः; आत्मनो वेदान्तजन्यवृत्तिव्याप्यत्वेन तत्र व्यभिचारात् । अतएव न तृतीयोऽपि । नापि द्वितीयः; नित्यातीन्द्रिये शुक्तिरूप्यादौ च तद्भावेन भागासिद्धिसाधन- वैकल्ययोः प्रसङ्गात् । नापि चतुर्थः; ब्रह्म पूर्व न ज्ञात- मिदानीं वेदान्तेन ज्ञातमित्यनुभवेन आत्मनि व्यभिचारात् । नापि पञ्चमः; ब्रह्मण्यप्यद्वितीयत्वादिविशिष्टव्यवहारे संविद- न्तरापेक्षानियतिदर्शनेन व्यभिचारात् । नापि षष्ठः; स हि अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वाभावरूपः । तथाच युक्ति- रूप्यादेरपि अपरोक्षव्यवहारयोग्यत्वेन साधनवैकल्यादिति , चेन्मैवम् ; फलव्याप्यत्वव्यतिरिक्तस्य सर्वस्यापि पक्षस्य क्षोदक्षमत्वात् । न च वृत्तिव्याप्यत्वपक्षे ब्रह्माण व्यभिचारः, अतीतादेर्योग्यस्थूलावस्थायां तदधिकरणयावत्कालं योगिनोन्यस्य वा कस्यचित् प्रत्यक्षसत्त्वेन' स्वाकारवृत्तिप्रतिबिम्बित चैतन्यविषयत्वात्, सूक्ष्मावस्थायामयोग्यस्थूलावस्थायां च अज्ञातत्वादिना साक्षिविषय- त्वात्, कादाचित्कोक्तविषयत्वोक्तेर्निरालम्बनत्वात् । किंच ज्ञातत्वा- दिना साक्षिविषयत्वस्य साक्ष्यध्यस्तज्ञानदिविषयत्वरूपतया तस्य वृत्ति- प्रतिबिम्बितचिद्विषयत्वसाधारणरूपेण न हेतुतासम्भवः । वृत्तेर्हि विष- यत्वमुक्तान्यतमादिरूपं, वृत्तिप्रतिबिम्बितचितस्तु तादात्म्यं, अन्यत- मत्वादिना तत्सम्भवे वा साधारणमिति तृतीयपक्षाविशेषः । तस्मा- त्कथांचाद्वषयत्वमिति वृद्धोक्तपक्षस्योक्त एवार्थः । स्वव्यवहारेत्यादि- पक्षद्वयं तु मूल एव स्पष्टीभविष्यति । अवेद्यत्वे सतीत्यादि । अवेद्यत्वं भमावरण चैतन्यतादात्म्यं तत्समानाधिकरणस्यापरोक्षव्यवहारयोग्यत्व - स्याभाव इत्यर्थः । क्षोदक्षमत्वादिति । विचारसहत्वादित्यर्थः । एतेन – " स्तम्भादिप्रत्ययो मिथ्या, प्रत्ययत्वात्, तथाहि – यः प्रत्ययः 1 प्रत्यक्षत्वेन. [ प्रथमः