पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

126 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः दृश्यत्वात् व्यभिचारः । न च 'विष्णवे शिपिविष्टाय' इत्यादौ विशिष्टस्य देवतात्ववत् विशिष्टस्य विषयत्वम्, अग्नीषोम- योर्मिलितयोर्देवतात्ववद्वा मिलितस्य विषयत्वम् अतो न विशेष्ये विषयत्वमिति वाच्यम्; तद्वदेव विशेषणस्यापि अवि- षयत्वे भागासिद्धिप्रसङ्गादिति चेन्न; विशेष्यतापत्रस्य विषयत्वेपि क्षत्यभावात्, तस्य मिथ्यात्वाभ्युपगमात् । अतएवोपहितविषय- त्वेऽपि उपधेयविषयत्वमक्षतमेवेत्यपास्तम्। उपहितात्मना तस्यापि वैकल्यमिति भावः । मिलितस्येति । उभयपर्याप्तं विषयत्व- मित्यर्थः । तद्वदेवेति । यथा विशिष्टस्यातिरिक्तत्वात् पर्याप्तिसम्ब- न्धेन विषयत्वस्य हेतुत्वाद्वा विशेष्ये न हेतुः तथा विशेषणेपाति भावः । विशेष्यतापन्नस्येति । न च विशिष्टज्ञानेन शुद्धे ज्ञातत्वस्य अज्ञाननिवृत्तेश्च व्यवहारो न स्यादिति वाच्यम्; इष्टत्वात् शुद्धस्या- व्यवहार्यत्वात् 'अव्यवहार्यमलक्षणम्' इत्यादिश्रुतेः । न च शुद्धतात्पर्य - निर्णायकावचारासिद्धिरिति वाच्यम्; तावताऽप्यक्षतेः उपहिततात्पर्य - निर्णायकविचारादेरेव श्रवणत्वादिसम्भवात् । तस्यापीत्यपिकारेण उप- हित 'ब्रह्मभिन्न प्रपञ्च मात्रस्य मिथ्यात्वम् उपहितत्वेन तत्र दृश्यत्व- सत्त्वादिति सूचितम् । तेन निर्विकल्पकास्वकारे घटादेस्तत्स्वींकारेऽपि नित्यातीन्द्रियस्यापि बिशिष्टरूपेणैव दृश्यत्वात् केवले तत्र भागा- सिद्धिरिति परास्तम् । घटादिप्रपञ्चस्योपहितान्यस्वरूपाभावादसिद्धय- नवकाशात् उपाहिततत्स्वरूपे मिथ्यात्वसिद्ध्यैव नः कृतकृत्यत्वात् । किंच ब्रह्मणः स्वप्रकाशत्वेन शुद्धरूपेण ज्ञानाविषयत्वेऽपि न क्षतिः । घटादेस्तु यदि शुद्धरूपं तदा ज्ञानाविषयत्वे अलीकमेव स्यात् । स्वप्रकाशत्वं तु तस्य दूरत एव । अनन्तानां तत्स्वीकारे गौरवस्योक्त त्वात् घटं न जानामीत्यनुभवाच्च । अपिच सोयं घट इत्यादिवाक्याद- । उपहिते. ,