पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

128 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां ज्ञानयोः निवर्तकनिवर्त्यत्वसिद्ध्या शुद्धब्रह्मविषयकाज्ञाननिवर्तकज्ञानस्य शुद्धब्रह्मविषयकत्वनियमेपि अज्ञानाद्यविषयकत्व नियमः कुतः ? इयं शुक्तिरज्ञानं रजतं च मेयं अहं ब्रह्म अज्ञानं घटादि मेयमित्यादिज्ञानानाम- धिकविषयकत्वेपि अज्ञानं प्रति समानविषयकत्वेन निवर्तकत्वसम्भवात्, अवस्थाज्ञानतत्कार्यशुक्तिरजतादिज्ञानानामविद्यावृत्तित्वेन शुक्तयाद्यविष- यकत्वेऽपि शुद्धब्रह्मज्ञानस्य मूलाज्ञानतत्कार्यघटादिविषयकत्वे बाघका- भावात् बाधितविषयकत्वेऽप्यबाधित विषयकत्वेन प्रमात्वसम्भवाञ्चेति वाच्यम् । तार्किकादिमते घटाभाववादिदं घटवदिति ज्ञानस्येव शुद्ध- ब्रह्मविषयकज्ञानस्य तदन्यविषयकस्यासम्भवात् । यादृशविषयतयोर्वि- रोधस्तादृशविषयतयोरे कज्ञानासम्बन्धनियमस्य तुल्यत्वात् । विरोधश्च तन्मते प्रतिबध्यप्रतिबन्धकतावच्छेदकत्वम् अस्मन्मते नाश्यनाश- कतावच्छेदकत्वं नाशतत्प्रतियोगिताच्छेदकत्वं चेत्यन्यदेतत् । वह्नि- व्याप्यो धूम इत्याकारोहुद्धसंस्कारकाले धूमवान् वड्यभाववानिति ज्ञानस्येव हृदो वढ्यभाववान् इति उद्धद्धसंस्कारकाले हृदो वहि- मानिति ज्ञानस्याप्यनुत्पत्तेः, आनुभविकत्वेन दृश्याभाववद्ब्रह्मेत्याका- रको हुद्धसंस्कारकालीन ब्रह्मज्ञान काले दृश्यविषयकज्ञानस्यासम्भवाच्च । दृश्यमाने सद्रूपब्रह्मणो दृश्यानुविद्धतया भानावश्यकत्वात् । ब्रह्म- ज्ञानात्पूर्वं घटत्वायुपस्थितयावद्धर्मावच्छिन्नाभावस्य मिथ्यात्वघटकतया ब्रह्मणि निश्चयात् । तत्र तस्योद्धद्धसंस्कारसत्त्वात्सर्बदा मुमुक्षुणा प्रपञ्चमिथ्यात्वस्य चिन्त्यमानत्वात् । अतएव विवरणे " ननु ब्रह्मा- त्मानुभवद्वैतदर्शनयोः कुतस्साहित्यम्” इत्याशङ्कय न वयं साहित्यं ब्रूमः किन्तु कदाचित् असम्प्रज्ञातात्मैकत्वदर्शनं कदाचिदारब्धकर्मोपस्था- पितदोषनिमित्तद्वैतदर्शनं चेति" इत्युक्तम् । सन्तमसबहुळालोकयो रिव' द्वैताद्वैतधियोर्विरोध इति तत्त्वदीपने शङ्काव्याख्यानम् । असम्प्रज्ञातं प्रत्यक्षादिमानाज्ञातम् । ननु ज्ञानं स्वसमान विषय काज्ञानतज्जन्यक्रम- 1 संतमसबहुळभास्करयोरिव. " [प्रथयः