पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः , नसम्बन्धादेरपि ज्ञाननाश्यत्वमुपपादनीयम् । अन्यथा तदुपहितरूपेणापि तमस्या कार्यत्वेन तस्य ज्ञानानाश्यत्वापत्तेः । तथाच किं भ्रमाजन्यत्व- चिन्तया । अतएव ज्ञानस्य उक्तनाशत्वपक्षे उक्तनाशहेतुत्वपक्षे वा अज्ञानसम्बन्धादिनाशत्वं तन्नाशहेतुत्वं वा नानुपपन्नं, उक्तान्यतर- नाशत्वादेरेव तत्र स्वीकारात् । यदा तु ज्ञानस्य नाश्यमज्ञानमेव, तत्प्रयुक्तं तु तन्नाशनाश्यमिति स्वीक्रियते तदोक्तक्षणिकत्ववार्तापि नेति सुतरां नोक्तनियमः । किंच ज्ञानमुक्तनाशः तद्धेतुर्वा आस्ताम्, उभयथापि जीवन्मुक्तिकाले कथमुक्तनियम: ? तदा भुज्य- मानादृष्टदेहादिसत्त्वात् तद्रमात्मकब्रह्मज्ञानोत्पत्तौ बाघकाभावात् । यच्चोक्तं वहिव्याप्य इत्यादिकं तदप्ययुक्तं; तार्किकादिमते हि घटाभाववानयं घटवानिति ज्ञानं नोत्पद्यते, प्रतिबन्ध की भूतबाधबुद्धि- सामग्रयाः प्रतिबन्धकत्वात् । सिद्धान्ते तु बाधबुद्धेरेव प्रतिबन्ध्न- कत्वस्य विवरणायुक्तत्वात् तत्सामग्रया अ (पि) प्यप्रतिबन्धकत्वम् | हृदो चढ्यभावेत्यादिकं तु तार्किकादिविमत मिति चेन्न; सिद्धान्ते बाघ- बुद्धेरप्रतिबन्धकत्वेपि तत्सामग्रीप्रतिबन्धकत्वसम्भवात् । परमते अनु- मित्यादिसामग्री प्रतिबन्धकत्ववत् । अन्यथा ज्ञानस्य अज्ञाननाशकत्वपक्षे घटाभाववानयं घटवानयमिति ज्ञानस्य दुर्वारत्वात् । हृदो बहयभावेत्यादौ बिमतत्वे तुल्ययुक्तया धूमो वहिव्याप्य इत्युद्बुद्धसंस्कारकालनिस्य धूमवान् वड्यभाववानिति ज्ञानस्योत्पत्त्यापत्तेः । एवंच तमेव विदित्वेत्यादि श्रुतेरप्याञ्जस्यम्, अथवा अज्ञानतत्कार्यविषयकेत्यस्य स्वनिवर्त्याज्ञान- विषयविषयकेत्येवार्थः’ । उक्तश्रुतिस्तु “एकधैवानुद्रष्टव्यं, प्रपञ्चोपशमं शिवमद्वैतं चतुर्थ मन्यन्ते सोयमात्मा स विज्ञेय." इत्यादिकेवलात्मज्ञेयत्व- पर श्रुत्यैकवाक्यतया तदंशेऽन्याविषयकज्ञानमोक्षहेतुत्वपरा। न्यायसिद्धस्य स्वसमानाविषय कत्वेनाज्ञान निवर्तकत्वस्य तथा अनुवादात् । अतएव - । 1 प्रत्यक्षमत, 2 ज्ञानस्योत्पत्तेः 3 स्वनिवर्त्याज्ञानविषयकेत्येवार्थः, 130 4 ज्ञान.