पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृश्य त्वनिरुक्तिः 135 यद्वा सप्रकारकवृत्तिविषयत्वमेव दृश्यत्वम् | प्रकारश्च सोपाख्यः कश्चिद्धर्मः । तेन निष्प्रकारकज्ञानविषयीभूते शुद्धे निरुपाख्यधर्मप्रकारकज्ञानविषयीभूते तुच्छे च न व्यभिचारः । अभावत्वस्यापि सोपाख्यत्वादभावत्वप्रकारकज्ञानविषयीभूते अभावे न भागासिद्धि: । उपाख्या चास्तीति प्रतीतिविषय- त्वादीत्यन्यत् । एतेन वृत्तिव्याप्यफलव्याप्ययोः साधारणं व्यव- हारप्रयोजकविषयत्वरूपं दृश्यत्वमपि हेतुः, ब्रह्माणि तुच्छे च व्यभिचारपरिहारोपायस्य उक्तत्वात् ॥ परिच्छेदः] च वाचस्पतिमते आत्मसाक्षात्कारस्य मानसत्वेन मनस्सन्निकर्षविष- याभ्यां जन्यत्वात् स्वोपहितात्मविषयकत्वानुपपत्तिः, विषयनिष्ठप्रत्या- सत्त्या तयोर्हेतुत्वेन स्वोपहिते तयोः स्वोत्पत्तिपूर्वमसत्त्वादिति वाच्यम्; सन्निकर्षाद्युपहितस्य स्वविषयस्य स्वोपहितत्वेन तदुपपत्तेः । यस्मिन् क्षणे यत्कारणकूटवत्तदव्यवहितोत्तरक्षणे तत्तादात्म्यापने कार्योत्पत्तिरिति व्याप्तेः स्वीकारात् । न च विनश्यदवस्थसन्निकर्षादिना स्वोत्पत्ति- स्थले मिन्नकालीनसन्निकर्षायुपहितात् स्वोपहितस्य अत्यन्त भेदात् यत्र मनस्संयोगोपहिते मनस्संयोग: 2 तत्र लौकिकविषयतया न साक्षा- त्कारोत्पत्तिरित्युक्तानुपपत्तिरिति वाच्यम्; तावताऽप्यविनश्यदवस्थसं- प्रयोगात् तदुत्पत्तिसम्भवादिति सुधीभिर्ज्ञेयम् । असख्यातिमते शब्देने- बानुमानादिनाऽपि तुच्छस्य ज्ञेयत्त्वात्तत्र व्यभिचारादाह – यद्वेति । धर्म इति । ग्राह्य इति शेषः । तथाच सोपाख्यनिष्ठप्रकारता कवृत्तिर्वा- च्येति भावः । तुच्छस्याप्यस्तित्वेन ज्ञानमस्तीति वादिनं प्रत्याह- आदीति । सत्तातादात्म्यतत्त्वान्यतरवत्त्वादित्यर्थः । एवं फलव्याप्य त्वहेतुतोक्तिपक्षेऽपि वृत्त्यभिव्यक्तचित्त्वादिरूपफलत्वेन न निवेशः । किन्तु स्वावच्छेदकवृत्तिव्याप्यत्वसम्बन्धेन मनोवच्छिन्नचित्त्वेन हेतुता । 1 स्वविषयस्योपहितादभेदेन. 2 मनस्संयोगे तत्तादात्म्यवति इति पा. उध्यसत्त्वेन.