पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

136 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां • [प्रथमः वृत्तिश्च सोपाख्यनिष्ठप्रकारताका ग्राझा । तेन नोक्तव्यभिचारः । , चित्त्वेन हेतुत्वं वा सम्बन्धभेदाच्चतुर्थपक्षाद्भेदः । न चातीन्द्रिये अविद्यासुखादौ च अनुमित्यादिवृत्त्यवच्छिन्नचैतन्यमादाय हेतुः स्थाप्यः तच्च न फलमिति फलव्याप्यत्वं रूपान्तरेणापि प्रकृते न हेतुरिति वाच्यम् ; वृत्तिप्रतिबिम्बितत्वेन तदघीनासत्त्वापादकाज्ञाननिवृत्तिमत्त्वेन वा साक्षिचैतन्यस्यैव प्रकृते फलत्वात् । अनुमित्यादिवृत्तौ साक्षिणः प्रतिबिम्बितत्वाधनपायात् । उक्तं हि विवरणे –' जानातेश्चानुमेयादिषु फलापेक्षया सकर्मकत्वं न कर्मकारकापेक्षया' इति । अतएव सुखादिरू पाया वृत्तेरपि स्वच्छत्वात् चित्प्रतिबिम्बग्राहित्वमित्युक्तं सिद्धान्तविद्यादौ । वृत्तिज्ञाने यद्यपि बाह्यार्थवत् फलं नास्ति, तथापि चैतन्याभिव्यक्तिरूपं फलमस्त्येव, मनस इव तत्परिणामस्यापि स्वच्छत्वेन चित्प्रतिबिम्बग्राहि- स्वादित्युक्तम् ‘नाभाव उपलब्धेः' इत्यधिकरणे कल्पतर्वादौ । एवंचेन्द्रियकरणकवृत्तावेव चित्प्रतिफलनं न त्वनुमित्यादिवृत्ताविति वेदा- न्तसिद्धान्त इति यत्परेणोक्तं तत् तन्मतिपरिपाकः । स्वाकारवृत्ति- प्रतिबिम्बितचिद्विषयत्वादिरूपस्य फलव्याप्यत्वस्यानुमित्यादिस्थले अस्म- सिद्धान्ते परमनङ्गीकारात् । उक्तं हि विवरणे –' अनुमित्यादौ न क्रियाजन्यफलशालित्वरूपं कर्मत्वं, किन्तु सुषुप्त यादिव्यावृत्तिमात्रम्' इति । वस्तुतः सर्वस्य कर्तृत्वादेव वर्तमानसर्वविषयज्ञतेत्यादिविवरणे ईश्वरोपाधिसत्त्वप्रधानमाया वर्तमानसर्व विषयाकारेण परिणमते, तस्मिंश्च परिणाम प्रतिबिम्बितं चैतन्यं सर्व पश्यत्याध्यासिकसम्बन्बादित्यादि- तत्त्वदीपनोक्ते : ' स्वाकारवृत्तिप्रतिबिम्चितचैतन्यविषयत्वरूपं फलव्याप्यत्वं सर्वत्र सुलभम् । न च चैतन्यत्वेनैव तादात्म्यरूपविषयतया हेतुत्व सम्भवात् व्यर्थविशेषणत्वमिति वाच्यम्; वृत्तिप्रतिबिम्बितत्वेनैव तादा- त्म्येन हेतुत्वात् । तुच्छे तु नोक्तमायावृत्तिः, विद्यमानमात्र एव 2 दीपनेोक्तं 1 विवर्णात्.