पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

138 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः त्वस्य वृत्तिविशोधित्वसम्भवात् एकस्यैवाज्ञानस्येच्छा विरहप्रयोजकत्वात् । तादृशस्याप्यध्यासोपादानत्वेन भावरूपत्वात् । प्रतिकर्मव्यवस्थायामधिकं वक्ष्यते । असत्त्वापादकाज्ञानस्यैवेच्छादिप्रयोजककुक्षौ निक्षेपादनुमित्या - दिकाले अभानापादकाज्ञानसत्त्वेपीच्छाद्युत्पत्तिः । न च घटादेरज्ञान- विषयत्वमेव लाघवादस्तु, तथाच तदवच्छेदकत्वोपपादकं चित्तादात्म्यं न कल्प्यमिति वाच्यम्; घटादिजडेषु तदाकारवृत्तिं विना प्रकाश- प्रसक्तिर्हि चैतन्यस्य शुद्धरूपेण मोक्षान्वयिससास्फुरणरूपसवगतस्वप्र- काशत्वेन क्लृप्तस्य सम्बन्धात् । तथाच तत्रैवैकत्र तत्तदवच्छिन्नरूपे - णाज्ञानविषयत्वकल्पनेन तदवच्छेदकेषु घटादितद्धर्मेष्वनन्तेषु अप्रका- शनिर्वाहे तेषु नाज्ञानविषयकत्वं कल्प्यते, गौरैवात् । किञ्च घटा- दौ तदवच्छिन्नचिति वा तद्विषयत्वमित्यत्र न विनिगमकम् । न चोक्त- चिति तत्स्वीकारे घटादौ तदवच्छेदकत्वस्य आवश्यकत्वात् गौरवमेव विनिगमकमिति वाच्यम्; उक्तचितः केवलचिदन्यत्वेन तस्यामन- वच्छिन्नेोक्तविषयत्वस्वीकारे दोषाभावात् अनतिरिक्तवृत्तित्वरूपाव- च्छेदकत्वमादायैव शास्त्रे तदवच्छेदकत्वव्यवहारात् अतिरिक्तावच्छे- दकत्वाकल्पनात् । उपहितस्य केवलानन्यत्वपक्षे तु एकस्यैव अज्ञान- विषयत्वस्य शुद्धचिन्निष्ठस्योक्तरत्या अवच्छेदकत्वानि घटादौ कल्प्यन्ते । तत्र विषयत्वं ब्रह्मज्ञानस्यैव विरोधि, अवच्छेदकत्वादीनि तु घटाद्या- कारवृत्तीनामपि । सर्वथा घटादौ चित्तादात्म्यमावश्यकम् । अत एव सत्तास्पुरणाकारप्रतीत्याऽपि सर्वत्र चित्तादात्म्यसिद्धिः, सत्तास्फुरण- रूपतया क्लृप्तचित एव तद्विषयत्वात् । अतएव विषयापरोक्ष्यमपि नेन्द्रियजन्यवृत्तिविशेषविषयत्वं, आत्मसुखादौ तदभावात् तन्मानस- साक्षात्कारस्य तत्र मनस्सन्निकर्षादिहेतुत्वस्य च कल्पने गौरवात् । किन्तु अज्ञानविरोधि चिद्रूपम् । अज्ञानविरोधित्वं च सुखाद्यवाच्छ. नचिति स्वतः, तदन्याचेति तु तदाकारवृात्त्येति विशेषः । अतएव ज्ञातत्व- ,