पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

142 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः वाच्यम् । तद्भेदस्यान्यानधीनापरोक्षत्वरूपधर्मानिरूपितत्वात् । जीवत्वेश्वरत्वादिरूपस्यान्यस्यैव धर्मस्य धर्मस्य तनिरूपकत्वात् । -- योगित्वेनाभाननियमात् । अतो न शुद्धब्रह्मण्युक्तहेतुारति भावः । जीवत्वाद्युपहितस्य ब्रह्मणः शुद्धब्रह्मानुयोगिको भेदः नोक्तस्वप्रकाशत्वा- वच्छिन्नानुयोगिताकः, येन जीवत्वोपहितब्रह्मप्रतियोगिकत्वात् शुद्ध- ब्रह्मप्रतियोगिकत्वमाशङ्कयेत । अतो न व्यभिचार इत्याशयेनाह -- तन्जेदस्येति । धर्मानिरूपितत्वान् – धर्मानवच्छिन्नानुयोगिता कत्वात् । ननु स्वप्रकाशो न जीव इत्यादिप्रत्यक्षसिद्धभेदप्रतियोगित्वं ब्रह्मण्य - पीत्यत्राह — जीवत्वेति । अन्यस्य शुद्धब्रह्मान्यस्य | शुद्धान्यो यो जीवत्वादिधर्म: तस्य तन्निरूपकत्वात् उक्तभेदप्रतियोगितावच्छे- दकत्वात् । तथाच तादृशभेद प्रतियोगित्वस्य स्वावच्छेदकधर्मसामा- नाषिकरण्यनियमात् उपहितस्य शुद्धातिरेकात् उपहित वृत्तेः शुद्धवृ- तित्वे मानाभावेन शुद्धब्रह्मावृत्तित्वान्न व्यभिचार इति भावः । अथवा ननु स्वप्रकाशत्वविशिष्ट केवलब्रह्मरूपाभ्यां कल्पितभेदस्यावश्यकत्वात् तस्यानुयोगितावच्छेदकत्वं स्वप्रकाशत्वे प्रतियोगित्वं केवलब्रह्मणी- त्यत आह — जीवत्वेति । तन्निरूपकत्वात् स्वप्रकाशत्वावच्छिन्ना- नुयोगिताकभेदप्रतियोगितावच्छेदकत्वात् । तथाचोक्तभेदो यदि स्वप्र- काशत्वावच्छिन्नानुयोगिताकस्तदा जीवत्वाद्यवच्छिन्न प्रतियोगिताकत्वा- ज्जीवत्वायुपहितप्रतियोगिक एव स्यात् । न शुद्धब्रह्मप्रतियोगिकः ; उक्तभेदस्य प्रत्यक्षसिद्धत्वात् प्रत्यक्षे अभावप्रतियोगितया शुद्धा भाननियमात् । अतः 3 शुद्धानुयोगिकः स्वप्रकाशत्वावच्छिन्नप्रतियो- गिताको वाच्यः । तथाच तादृशभेदप्रतियोगित्वमादाय न व्यभिचा- रशङ्का, तादृशभेदस्यैव शुद्धस्वप्रकाशयोः तादात्म्याधुपाहिततया 'स्वप्र- काशे शुद्धस्याप्रत्यक्षे भेदान्तरे मानाभावादिति भावः । न चैवं द्युपपादकतया. 1 अतो व्यभिचार. 2 स्वोपहित. 3 नियमादरः