पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वनिरुक्तिः 143 ." एवंचावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपं दृश्यत्वमपि हेतुः । न च फलव्याप्यत्वाभावविशिष्टं यदपरोक्षव्यवहार- योग्यत्वं तस्य ब्रह्मणवाविद्यान्तःकरणादौ शुक्तिरूप्यादौ व सत्वेन असिद्धिसाधनवैकल्ये इति वाच्यम्; अज्ञाननिवर्तक- वृत्तिविषयत्वयोग्यत्वस्य अपरोक्षव्यवहारयोग्यत्वपदेन विवक्षि- भेदप्रतियोगित्वमात्रं हेतुरस्तु स्वावच्छेदकोपहित एव तत्सत्त्वात् न शुद्धब्रह्माण व्यभिचार इति वाच्यम्; सत्यत्वादिरूपस्य ब्रह्मणः स्वध- र्मतानिर्वाहाय कल्पितभेदस्य अस्वीकारमते शुद्धं ब्रह्म जगदुपादानमिति मते उपादानत्वान्यथानुपपत्त्या कल्प्यस्य मेदस्य च परोक्षबुद्धयेकविष- यत्वेनानवच्छिन्नप्रतियोगिताकस्य प्रतियोगित्वमादाय शुद्धब्रह्माण व्यभि- चारात् प्रत्यक्ष एवं किञ्चिदवच्छिन्नप्रतियोगिताकत्वनाभावभाननि- यमात्, स्वप्रकाशत्वावच्छिन्नानुयोगिताकत्वेन प्रतियोगितासम्बन्धेन हेतुत्वे वैयर्थ्यानवकाशाच | स्वप्रकाशो न तव्यक्तिरिति घिया स्वप्र- काशो न स्वप्रकाश इत्याहर्यघिया वा स्वप्रकाशत्वोपहितेऽपि तव्यक्ति- त्वादिरूपेण तस्माद्भेदस्य सत्त्वात् न भागासिद्धिः । एवश्चेति । यथाश्रुतमनादृत्य व्याख्यादरे चेत्यर्थः । अवेद्यत्वे इत्यादि । अवेद्यत्व- समानाधिकरणं यदपरोक्षव्यवहारयोग्यत्वं तदभाव इत्यर्थः । वेद्यत्वं स्वावच्छिन्नचैतन्यविषयकं यदभानापादकाज्ञानं तन्निवर्तकवृत्तिव्याप्यत्व- रूपं फलव्याप्यत्वम् । तच्च न ब्रह्माण, तदवच्छिन्न चैतन्याप्रसिद्धेः । नापि शुक्तिरूप्यादौ तस्यातीततादशायां असत्त्वापाद काज्ञाननिवर्तका- नुमित्यादिवृत्तिव्याप्यत्वेऽप्युक्ताज्ञाननिवर्तकवृत्त्यव्याप्यत्वात् । अनावृत - साक्षिसम्बन्धो नोक्त व्यवहारयोग्यत्वम्, येनोक्तदोषः । किन्तु अभा- नापादकाज्ञाननिवर्तकवृत्तिविषयत्वयोग्यत्वम् । उक्तविषयत्वस्य अव्याप्य वृत्तित्वात् ब्रह्मण्यपि तदभावोस्तीत्यतो योग्यत्वोत । तच्चाभानापाद- 1 सबन्धेनोक्त. , . 4