पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

146 अदैनमिद्रिव्यमत्रायां गुरुचन्द्रिकायां [प्रथमः चावेद्यत्वे सतीत्यादि न युक्तम्, वृत्तिमात्रस्याज्ञानानिवर्तकतया त्वन्मते घटादाविव ब्रह्मण्यप्यज्ञाननिवृत्त्यर्थं वृत्तिप्रतिबिम्बितचैतन्यस्यावश्यक- त्वेन फलव्याप्यत्वात् । विशेषणाभावप्रयुक्तविशिष्टाभावः घटादावेव वृत्तौ चित्प्रतिफलनं न तु ब्रह्मणीत्यङ्गीकारे वृत्तेरज्ञानानिवर्तकत्वे- नातीन्द्रियादाविव विशेष्याभावप्रयुक्तो विशिष्टाभाव इति ब्रह्माण व्यभिचारो दुर्वारः । वृत्त्यन्यचैतन्यरूपज्ञानस्य मया अनङ्गीकारेणा- न्यतरासिद्धिश्च" इत्युक्तं, तत्तुच्छम् उक्तव्याख्यानस्य निर्दोषत्वात् । किंच निरूपितपदस्या वच्छिन्न प्रतियोगिताकार्थकत्वमिति ते भ्रमः । तथा सत्युक्तभेदप्रतियोगित्वं ब्रह्मण्येवेति प्रपञ्चे तदसिद्धिं त्यक्ता पञ्चमप्रकारादौ व्यभिचार एव कथमुक्तः ; चित्रं महदेतद्यद्वाक्यार्थ- मबुद्धैव दूषणे प्रवृत्तिः । अपिच पञ्चमेत्याद्य युक्तम्, सद्योमुक्तिपक्ष एवोक्तविशेषणादरात् । उक्तं हि संक्षेपशारीरकादौ-- सम्यक्ज्ञानविभावसुः सकलमेवाज्ञानतत्सम्भवं सद्यो वस्तुबलप्रवर्तनमरुयापारसन्दीपितः । निर्लेपेन हि दन्दीति न मनागप्यस्य रूपान्तरम् संसारस्य शिनष्टि तेन विदुषः सद्यो विमुक्तिध्रुवा ॥ इति । नापि प्रत्येकमुक्तिपक्षे दोषः, एकजीवपक्ष एव तथोक्त- त्वात् । तस्यैव मुख्यासिद्धान्तत्वात् पक्षान्तराण्यपि संगृहीतान्येव । वाम देवादिमुक्तिशास्त्रं तु अर्थवादो देवताधिकरणन्यायेन प्रत्येकमुक्ति- साधकं वाच्यम् | न च तत्सम्भवति, मानान्तराविरोध एव तन्त्र्यायप्रवृत्तेः । प्रकृते च लाघवतर्कसनाथेभ्यः 'पुरत्रये क्रीडति यस्तु जीवः ' इत्यादिश्रुत्यनुमानादिभ्यो जीवैकत्वसिद्धेः । किंचे- त्याद्यपि न युक्तं, 'यत्साक्षादपरोक्षात्' इति श्रुत्युक्तब्रह्मापरोक्षत्व- स्य तृतीयप्रकारत्वात्तस्य जातित्वे जन्यापरोक्षत्वस्येन्द्रियादिजन्यता- 1 पञ्चमेत्यादि.