पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] जडत्वनिरुक्तिः 149 न्यस्य चाज्ञानत्वेन वृत्तावसिद्धिपरिहारेजप चैतन्ये व्यभि चारतादवस्थ्यान् । नापि तृतीयः; आत्मत्वस्यैव निरूपाय- तुमशक्यत्वात् । तद्धि न जातिविशेषः; त्वया आत्मन- एकत्वाभ्युपगमात् । विशिष्टयत्मनां भेदेऽपि तेषां पक्षकुक्षि- निक्षितत्वात् । नाप्यानन्दरूपत्वम्, वैषयिकानन्दे तद्वयति - रकस्य हेतोरसिद्धेः । तस्याप्यात्मत्वे अज्ञान पक्षोक्तदोषः प्रस- अनीय इति चेत्, मैवम् ; द्वितीय तृतीयपक्षयोः दोषाभावात् । तु न ज्ञानपदवाच्यं किन्तु लक्ष्यमिति भावः । अज्ञानपक्षो- क्तेति । विषयसेवाजन्यवृत्त्युपरक्तचैतन्यस्यैवानन्दत्वेन केवलचैतन्ये व्यभिचार इति भावः । केवलवृत्तिचितोरिव वृत्त्युपरक्तचितोऽपि न ज्ञानत्वम् । पटाकारवृत्तिकाले घटं जानामत्यापत्त्या तदाकारवृ- युपरक्तचित एव तज्ज्ञानत्वात् सुखाद्या कारवृत्त्यभावेन सुखादि जानामत्यिस्य असम्भवात् । किन्तु तदीयस्यासत्त्वापादकाज्ञानस्य विरो- विचितः तज्ज्ञानत्वं तदीयत्वं च स्वावच्छिन्नचिद्विषयताविषयितान्यतर- रूपः तत्सम्बन्धः ब्रह्मणः स्वावच्छिन्नचिद्विषयितायाः घटादेश्व स्ववि- वयितायाः अज्ञाने अप्रसिद्धया अन्यतरनिवेशः सुखादे श्चातीततादिदशायां स्वावच्छिन्न चिद्विषयताकाज्ञानं प्रसिद्धम् । अन्यथा तत्र भ्रमादिकार्या- नुपपत्तेः अभानापादकाज्ञानसत्त्वेपि परोक्षवृत्तिकाले घटं जानामीत्य - नुभवादसत्त्वापादकेति । ज्ञाघातोः शक्यता तु लाघवाच्चिद्वयक्तावेव निरवच्छिन्ना शक्य नानात्व एवानुगमार्थ अवच्छेदकस्वीकारात् । घटं जानातीत्यादिवाक्यजन्यबोघे उक्ताज्ञानविरोधित्वसम्बन्धेन घटा- देर्ज्ञाधात्वर्थे अन्वये निर्धर्मितावच्छेदकशाब्दबोधः प्रकृते स्यादेव | घटत्वाद्यवच्छिन्नविशेष्यताकस्य बाघप्रतिबध्यस्य योग्यताज्ञानस्य घटः , 1 ज्ञान 3 निरवच्छिनाशक्यता न त्ववच्छिणानुगत्यर्थ इति. पा. 3 स्यात् । एवं. 2