पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जडत्वानरुक्तिः 153 उत्पत्त्यर्थमर्थानपेक्षत्वेऽपि तन्निरूप्यत्वदर्शनेन ज्ञानस्य ज्ञात्र- ज्ञेयनिरूप्यत्वं स्वभावः । अन्यथा 'इदमहं जानामि' इत्य- नुभवो न स्यात् । 'ज्ञातुरर्थप्रकाशस्य ज्ञानत्वात्' इति विव- रणविरोधश्च स्यादिति चेन; जातेर्व्याक्तिनिरूप्यत्वेऽपि कदा- चित्तदसम्बन्धवदुपपत्तेः सम्बन्धप्रयोजकोपाध्यपेक्षया अधि- कसत्ताकत्वात् । अतएव ज्ञानस्य सज्ञेयत्वं सज्ञातृत्वं च न स्वाभाविकम् । तथाहि - सज्ञेयत्वं तावत् ज्ञेयजन्यत्वं वा ज्ञेयव्याप्यत्वं वा । नाद्यः, परोक्षज्ञाने ईश्वरज्ञाने चाभावात् । नापि द्वितीयः; 'यदा ज्ञानं तदाऽर्थः' इति कालिकव्याप्तौ पूर्ववत् व्यभिचारात् । दैशिकव्याप्तिस्तु दूरनिरस्तैव । न च यदा अपरोक्षज्ञानं तदाऽर्थः' इति कालिकव्याप्तौ नास्ति व्यभिचारः, आत्मा च 'यत्साक्षादपरोक्षाब्रह्म' इति श्रुतेरप रोक्षज्ञानरूप इति सोप्यर्थव्याप्त इति वाच्यम्; ईश्वरज्ञाने योगिज्ञाने च व्यभिचारात् । 'यदैन्द्रियकं ज्ञानं तदाऽर्थः' इति तु व्याप्तिस्सर्वसम्मता । न चात्मरूपे ज्ञाने ऐन्द्रियकत्व- मस्तीति न तया विरोधः । ' . परिच्छेदः] पम् । अखण्डाकारवृत्त्युपलक्षितचिद्रूपस्यैवोक्तविरोधित्वरूपत्वादिति भावः। ज्ञानत्वहानिः– आनन्दा प्रकाशापत्तिः । उक्तमिति । सविषयक- त्वस्य अतात्त्विकतोक्त्या अखण्डाकारवृत्त्युपलक्षितचिद्रपस्याज्ञानतत्प्रयु- क्तसामान्यविरोधित्वमुक्तमित्यर्थः । सम्बन्धप्रयोजकोपाधीति । ज्ञातृ- ज्ञेयसम्बन्धप्रयोजकविद्योपाधीत्यर्थः । यदा ज्ञानं तदाऽर्थ इति । यदा यस्यार्थस्य ज्ञानं तदा सोर्थ इत्यर्थः । तेन वक्ष्यमाणव्यभिचारसङ्गतिः । दूरेति । अन्तःकरणादौ ज्ञानवत्यपि साक्षात्सम्बन्धेन तद्विषयषटाचस- त्त्वात्परम्परा सम्बन्धेन व्यापकत्वस्य यद्यत् ज्ञानं तत्र तादाम्त्येनार्थ इति व्याप्तेश्वास्माकमिष्टत्वाचेति भावः । सर्वसम्मतेति । यदा यदर्थेन्द्रि-