पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] जडत्वनिरुक्तिः एवमस्वप्रकाशत्वं वा जडत्वम् । तच्च पूर्वमेवोपपादितमिति शिवम् || इति जडत्वोपपत्तिः. 6 शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा' 66 इत्यत्र शक्यादित्यस्य शक्यतावच्छेदकघटकादित्यर्थकत्वात् । अतएव ' श्येनेन यजेत' इत्यादौ बलवदनिष्टाननुबन्धित्वसमानाधिकरणेष्ट- साघनत्वशक्तस्य विधेः केवलेष्टसाधनत्वबोधने न लक्षणेत्यभिप्रायेण प्रमा- योगव्यवच्छिन्नत्वमीश्वरस्योक्तम् । अन्यथा प्रमाया अकरणे घटादावपि प्रमायाः कालिकादिसम्बन्ध रूपयोगाभावव्यवच्छेदसत्त्वेन प्रमाणशब्द- मुख्यार्थत्वापत्तेः । अतएव 'करणव्यवहारस्तु अन्यत्र यद्यप्यन्यनि- मित्तकः, तथापीहोक्तनिमित्तविवक्षयैव' इत्यमे उक्तं कुसुमाञ्जलौ । अन्यनिमित्तकः अयोगव्यवच्छेदेन जनकत्वनिमित्तक इति वर्धमानाः । यत्तु –“ स्वाघिकरणक्षणध्वंसोत्पत्तिक्षणत्वव्यापकप्रमितिकत्वरूपः प्रमा योगव्यवच्छेदः सौत्रप्रभाणशब्दार्थः । स चेश्वरे प्रमाचरमकारणे चास्ति " इति विद्यावागीशैरुक्तं, तत्रायमेव यदि मुख्यार्थः तदा परमाण्वाय- कारणेsपि तत्त्वापत्तिः, ईश्वरप्रमामादाय तत्राप्युक्तार्थसत्त्वात्, उक्त- प्रमित्यधिकरणत्वोक्तावपि जन्यमात्रस्येश्वरज्ञानमादाय तत्सत्त्वात् । जन्य- प्रमानधिकरणकालोत्पन्ने चरमक्रियादौ प्रमाणपदमुख्यार्थत्वापत्तिः । यदि चायं गौणोर्थः, तदा प्रवृत्तिनिमित्तं तु यथोक्तमेवेत्युत्तरमन्थविरोषः । तु अथ प्रमोपधायकत्वघटितमुक्तरूपं मुख्यार्थः, उक्तग्रन्थस्य तु यथोक्तं प्रवृत्तिनिमित्तमेव तद्घटकत्वादित्यर्थः, तदाऽस्मदुक्तप्रकारे पर्यवसानम् । तस्मादीश्वरज्ञाननिर्विकल्पकव्यावृत्तं प्रमात्वमव्याहतम् । यच्चोक्तम्-- 'तद्वति तत्प्रकारकज्ञानत्वं न मुख्यप्रमात्वम्, किन्तु विशेष्यावृत्त्यप्र- कारकानुभवत्वम्' इति तत्तुच्छम्; तद्वतीत्यावेः मणिकारादिभिः 11* 163 ु