पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः व्यावहारिकाभावप्रतियोगित्वेऽपि न साधनवैकल्यम् । निरुक्त- मिथ्यात्वप्रकाराणामेवंरूपत्वाभावात् न साध्याविशिष्टता । ध्वंसप्रतियोगित्वं चाकाशादौ नासिद्धम् । 'तस्माद्वा एत- स्मादात्मन आकाशस्सम्भूतः' इति श्रुतिसिद्धजन्यत्वेनानुमि- तत्वात् । 'आकाशवत्सर्वगतश्च नित्यः' इत्यत्र चात्मनिदर्शन- नत्वं स्वसमानकालीनसर्वगतत्वेन आभूतसम्प्लवावस्थायित्वेन चेति द्रष्टव्यम् । ‘अतोऽन्यदार्तम्' इति श्रुत्या अनात्ममात्र- स्यैव विनाशित्वप्रतिपादनात् । अतएव “घटादयः स्वानु- 166 - -मिथ्यात्वानुमानं चोक्तहेतुकं उक्तहेतु सिद्धेः पूर्वमप्रवृत्त्या न तत्साधकम् ; तथापि दृश्यत्वादिहेत्वन्तरेणात्यन्ताभावप्रतियोगित्वघटितमिथ्यात्वे सिद्धेऽ- प्यत्यन्ताभावप्रतियोगित्वन सदसद्विलक्षणत्वादिरूपमिथ्यात्वानुमितिस्स- म्भवतीत्यभिप्रायेणाह – निरुक्तेति । अत्यन्ताभावप्रतियोगित्वान्येत्यर्थः । एवंरूपत्वेति । अत्यन्ताभावप्रतियोगित्वरूपत्वेत्यर्थ: । साध्याविशि- धता साध्यस्यानुमितिपूर्वकालापेक्षया अनुमितिकाले विशेषाभावः, सिद्धत्वमिति यावत् । विशिष्टप्रतियोगित्वरूपमिथ्यात्वसिद्धावपि प्रकृत 2 हेतुना तदन्यमिथ्यात्वसाधनमव्याहतमिति भावः । एतेन - मिथ्या- त्वलक्षणे स्वाधिकरणादिनिवेशात् तदनिवेशपक्षेऽपि सद्वृत्त्यत्यन्ताभाव- निवेशान साध्यहेत्वोरविशेष: ' इत्यादि परास्तम् । जन्यत्वेनेति । जन्यमात्रस्याविद्योपादानकत्वात्तन्नाशनाश्यत्वादविद्यासम्बन्धादेरपि अज्ञा- नप्रयुक्तत्वेनाज्ञाननाशकनाश्यत्वात् । शुक्तयज्ञान सम्बन्धादौ कूलप्तत्वात् एकाज्ञानपक्षे तस्या 'क्ऌप्सत्वेऽपि विद्वान्नामरूपाद्विमुक्त: ' इत्यादि- श्रुतेः लाघवादनात्मत्वावच्छेदेनैवात्मज्ञान विरोधित्वकल्पनात् अनात्म- मात्रं विनाशि अविद्यानाशस्यैव अनात्ममात्रनाशत्व कल्पनात् नाका- 1 निदर्शनवत्त्वं. 2. 3 शुक्तिज्ञान. अप्रकृत. ‘ 4 5 तथा. नाशकत्व.