पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छिन्नत्वविचारः 169 सास्त्रादिमत्त्वाद्युपाध्यनुगतानां वा तयञ्जकत्ववत् व्यक्तिवि शेषविशिष्टत्वेन सत्सामान्यस्यैव तत्तव्यवहारजनकत्वोपपत्तेः । तत्राह – सास्त्रेति । अनुगतानां विशेषितानां सास्नाद्यवच्छिन्न- सन्निकर्षाद्याश्रयतया व्यक्तीनां व्यञ्जकत्वमिति भावः । व्यक्ति- विशेषविशिष्टत्वेनेति । गोत्वादिना अभिमतव्यक्ती नामन्यतमनिष्ठता. दात्म्यरूपवैशिष्ट्येनेत्यर्थः । तत्तव्यवहारेति । गोत्वादिप्रयोज्यकार्ये- त्यर्थः । जनकत्वेति । प्रयोजकत्वेत्यर्थः । न च सम्बन्धाननुगमो दोषः, स्वरूपसम्बन्धेन कारणत्वादिस्थले तस्यातत्त्वात् अन्यतमत्वेना- नुगमसम्भवाच्च । न च तावता तादात्म्यानन्त्यात्तद्घटितान्यतमत्वनिवेशे गौरवमिति वाच्यम् ; तावदन्यतमत्वव्यक्तेः स्वरूपत एव निवेशात्, अनुगतरूपान्तरसत्त्व एव तेन रूपेणावच्छेदकत्वे अन्यथासिद्धेः स्वीका- रात् । अतएव स्वरूपसम्बन्धेनाभावादेः कारणत्वादिस्थले तावत्स्वरू- पान्यतमत्वमेव स्वरूपतोऽवच्छेदकम् । अन्यथाऽननुगतसम्बन्धैः कारण- त्वादेर्दुर्वचत्वात् । एवंच तादृशान्यतमसम्बन्धेन सद्पमेव गौरित्यादिव्य- वहारविषयः। गोत्वाद्यवच्छिन्नत्वेन अभिमतं कारणत्वादिकं उक्तसम्बन्धेन तद्रूपेणैवा' वाच्छिद्यत इति गोत्वादिकल्पनं व्यर्थम् । तदुक्तं भर्तृहरिणा- सम्बन्धभेदात्सत्तैव 3 विद्यमाना गवादिषु । परिच्छेदः] जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः || इतीति भावः । न च गोव्यक्तीनां अन्यतमत्वेनापि कारणत्वादि- सम्भवात् सत्सामान्यस्यैवेत्यसङ्गतमिति वाच्यम्; गोत्वाभ्युपगमेप्यु- क्तान्यतमत्वादिना तदापत्त्या तेन रूपेणान्यथासिद्धेरावाभ्यां स्वीका रात् । अथवा गोव्यक्तयः सद्रूपतादात्म्यविशिष्टा गौरित्यादिव्यवहार- विषया इत्येव प्रकृतग्रन्थार्थः । न च गवादिपदानां शक्यता, गवादि- निष्ठकारणत्वादिकं च सद्रूपेणावच्छेत्तुमशक्यं अतो गोत्वमावश्यक- मिति वाच्यम्; सद्रूपविशिष्टगोव्यक्तिष्वेव उक्तशक्यताकारणतादे_ 1 सन्निकर्षान्यवृत्तीनां. 2 सद्रूपेणैवा 3 भेदास्तत्रैव.