पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

170 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः 2 अतएव 'घटादिकं सद्रूपे काल्पतम् । प्रत्येकं तदनुविद्वत्वेन प्रतीयमानत्वात्, प्रत्येकं चन्द्रानुविद्धजलतरङ्गवत्' इति ब्रह्म- रनवच्छिन्नस्य स्वीकारे बाघकाभावात् । न च कम्बुग्रीवादिमत्त्वादिना शाब्दबोधस्यापि घटादिपदगक्तिज्ञानजन्यत्वापत्तिरिति वाच्यम्; घटत्वेन घटबोधस्यानुकूलायाः घटपदनिष्ठायाः शक्तेरेव घटपदघटयो शक्ति- रूपत्वात् । तार्किकादिरीत्या तु घटपदात् घटत्वेन घटो बोध्यता- मितीच्छा 'विशेष्यत्वस्यैव तद्रूपत्वात् ' तत्र घटत्वं सद्रूपमेव घटस्त- व्यक्तिरेव सद्रूपेण यत्किञ्चिद्गोव्यक्तौ शक्यताग्रहस्यैव अन्वयव्यतिरेकाभ्यां सद्रूपेण गोव्यक्तिस्मृतिशाब्दबोषहेतुत्वस्य अनवच्छिन्नस्य सम्भवात्, अनवच्छिन्न कारणत्वादेरेव दण्डत्वविशिष्टादौ ग्रहात् प्रवृत्त्यादिसम्भवात् । न च घटत्वादिजातिं विना घटादिकारणत्वमेकं दुर्वचमिति वाच्यम्; शक्तिविशेषरूपस्यातिरिक्ताखण्डरूपस्य वा कारणत्वस्य उक्तजातिं विनाऽ- प्यैक्यसम्भवात्, कार्यकारणव्यक्तीनामन्यतमत्वव्यक्तयोरेव अखण्ड- कारणता 'घटकत्वसम्भवाच्च । अन्यथा व्याप्यत्वादेः कारणत्वाद्यवच्छेदक - त्वस्य चावच्छिन्नत्वनियमापत्तेरित्यास्तां विस्तरः । अतएव उक्त- परिच्छेदानां हेतुत्वसम्भवादेव । सद्रूपे कल्पितं सद्रूपधीनिवर्त्य - मुक्तार्थकं वा । तरङ्गचन्द्रे तु तत्त्वं सिद्धमेवेति न साध्यवैकल्यम् । प्रतीयमानत्वात् प्रतीयमानतायोग्यत्वात् । सदनुवेषेन प्रतीयमानता - योग्यत्वं च उक्तपरिच्छेद एवेति भावः । अथवा सत्तादात्म्या- विषयकप्रतीत्यविषयत्वादित्यर्थः । प्रतीतिमात्रे सद्रूपं विषय इति वक्ष्यते । यत् यत्तादात्म्याविषयकप्रतीत्यविषयस्तत्तत्र कल्पितमिति सामान्यतो व्याप्तिः । अतएव दृष्टान्ते चन्द्रानुविद्धेत्युक्तम् । चन्द्रानु- विद्धषीविषयतत्यर्थ: । प्रत्येकमिति । प्रतीतिविशेषणेन स्वविषयक- 1 बोध्यत इतीच्छा. 2 3 सद्रूपत्वात्. मन्यतमत्वादिव्यक्तेरेवाखण्डकारणता. 4 चन्द्रानुवेधलाभेन उक्तहेतुलाभात् न तदुक्तिवैयर्थ्यम् । यत्तु अनेकेषां तदनुविद्धतया प्रतीयमानत्वं हेतुः; ब्रह्मणस्तु नानेकत्वमिति न तत्र विद्धधीविषयेत्यर्थः - इत्यधिकपाठः.