पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः व्यवहारस्यावरण प्रतिरुद्धत्वे घटादिवृत्तिविषयत्वं सद्रूपे व्यर्थमुक्तमिति वाच्यम्; सदुपरक्तघटादिसंस्कारार्थं तदुक्तेः, सम्भवप्राचुर्यमात्रेण तस्योक्त- त्वाच्च । ' नावेदवित्' इत्यादिश्रुतेस्तु न विरोधः, मूलाज्ञानस्य वेदजन्यवृ न्यैव निवृत्तिरित्येतत्परत्वात् । सत्तादृष्टान्तस्तु न त्वया दृष्टान्तः, यथा सत्ता सर्वेन्द्रियमाझा तथा ब्रह्म; उक्तयुक्तिकलापसत्त्वे जातित्वाभावस्याप्रयो- जकत्वात् ब्रह्मण एव सर्वजातिरूपत्वस्योक्तत्वाच्चेत्याशयात्, सद्रपं धीमा- त्रविषयत्वेन सर्वानुभविकमित्येतत्परत्वेन मया व्याख्यातत्वात्, सत्तेत्यादेः दृष्टान्तत्वाभावाञ्च । उक्तवार्तिकमपि युक्तम्, 'अथ परा' इत्यादिश्रु- त्याऽक्षरविषयकमूलाज्ञाननिवर्तकत्वस्यैव लक्षणस्योक्तत्वात, कालस्योपनी ततया न भानं, प्रत्युक्तत्वात्, तया विनापि भानस्योपपादितत्वाच्च। साक्षिणा न तज्ज्ञानं, तस्य क्रियादिरूपस्य साक्षिण्यनध्यासात् । स्वभावेत्यादि 2- रोदनं तु प्रत्युक्तम् | ब्रह्म त्वित्यादिकं तु युक्तम् ' ; अस्थूलादिश्रुत्या परिमाणमात्रस्यैव निषेधात् सङ्कोचे मानाभावात् घटादिसाधारणपरि- माणस्य ब्रह्मण्यप्रयुक्त ' त्वात्, सर्वभासकत्वादिना प्रसक्तसर्वसम्बन्ध- योग्यस्य परममहत्त्वस्यैव प्रसक्तत्वात् । अणीयानित्यादेः दुर्बोधत्व परत्व वत् महीयानित्यादेः परिमाणशून्यत्वपरत्वात्, अविद्यादि महत्साघा- रणपरिच्छेदशून्यत्वपरत्वाद्वा । सर्वत्र प्रसिद्धेत्यादिसूत्रेण मनोमयत्वादिना ब्रह्मोपासना सर्व समाप्नोषीति स्मृत्या सर्वसम्बन्ध प्रतिपाद्यते, न परिमाणम् । उपादानत्वमपि न परिमाणसाधकं; व्यातिप्राहकतर्का- भावात् । अतएव द्रव्यत्वमपि न तथा; विवर्तोपादानत्वे तदुप- योगस्य शङ्कानास्पदत्वात् । एवं धारणं न द्रव्यत्वसाधकम् ; न हि ब्रह्मणि ब्रह्माण्डादिधारणं संयोगविशेषः, निरवयवे संयागाभावात्, किन्तु आध्यासिकतादात्म्यं पतनप्रतिबन्धकप्रयत्लो वा तस्य च मायि- , , 178 , 1 स्यावरणा. 2 साक्षिणा तदज्ञानस्य क्रियादिरूपस्य साक्षिण्यध्यासात् । सत्ता वे- त्यादि. इति कोशान्तरे पा. 3 न युक्तम्. 4 प्रसक्त. 5 असत्यादि.