पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

198 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां व्यापक इति नोपाधिः । अतएवाधिष्ठानत्वाभिमतसमसत्ताक- दोषवजेतुजन्यज्ञानविषयत्वमुपाधिः । अत्र च ब्रह्मणोऽपि बौद्ध- कल्पितदोषवद्धेतुजन्यक्षणिकत्वादिज्ञानविषयत्वात् समव्याप्ति- सिद्धयर्थ अधिष्ठानसमसत्ताकेति विशेषणं, न तु पक्षमागव्यावृ त्यर्थम् । अतो न पक्षेतरतुल्यतेत्यपास्तम् । ब्रह्मणीव ब्रह्मणि कल्पिते क्षणिकत्वादावपि मिथ्याभूते धर्मे अधिष्ठानसमसत्ताक - दोषवळे तुजन्यज्ञानाविषयत्वादुपाधेः साध्याव्याप्तेः, व्यतिरेक- साधने व्यर्थविशेषणत्वस्योक्तत्वाच्च । नापि श्रुतितात्पर्याविषय- त्वमुपाधिः, श्रुतितात्पर्यविषयत्वस्य ब्रह्ममात्रनिष्ठतया तदभा- विशेषणकृता पर्वता' वयवरूपादेर्व्यावृत्तिः 2 नोपाधितायामुपयुज्यते, किन्तु पक्षस्येव साधनाव्यापकत्व सम्पादकत्वादिति, उपाधित्वौपयिकी या विपक्षव्यावृत्तिः तदसम्पादकत्वादुक्तविशेषणस्य पक्षमात्रव्यावर्तकत्वं मण्यादावुक्तमिति दीघित्यादौ स्पष्टम् । तथा समव्याप्तिसम्पादकस्या- प्यधिष्ठानेत्यादिविशेषणस्य ब्रह्मव्यावर्तकत्वस्य 3 खानधिकरणेत्यादिनिरु- क्तोपाधित्वानौपयिकत्वादु क्तव्यावृत्त्यसम्पादकत्वेन पक्षमात्रव्यावर्तकत्व- मक्षतम् । आर्द्रेन्धनादेस्तु आर्द्रत्वादिविशेषणकृतायोगोलकादिव्या- वृत्तिः साधनाव्यापकत्वसम्पादकत्वादुपाधित्वौपयिकीत्याशयेनाह-अत- एवेति । समव्याप्तिसम्पादकत्वेप्युक्तरीत्या पक्षमात्रव्यावर्तकत्वादेवेत्यर्थः । ब्रह्मणवेत्यादि । स्वजनकाज्ञानविषयावच्छेदक ' रूपाधिष्ठानघटितो- क्तोपाधिर्यथा न ब्रह्मणि, तज्जनकाप्रसिद्धेः, तथा न तत्र कल्पिते क्षणिकत्वादावपि, तज्जनकाज्ञानविषयब्रह्मावच्छेदकाप्रसिद्धेः । तत्प्रसि- द्धिस्तु शुक्तिरूप्यादौ । स्वजनकाज्ञानविषयसमसत्ताकदोषनिवेशे तु तत्राप्रसिद्धया साध्यव्यापकत्वमपि । ब्रह्ममात्रेति । अवान्तरतात्पर्य - विषयत्वं तु यागादिनिष्ठे स्वर्गादिसाधनत्वे, न तु यागादौ, 'अनुप- .3 1 कृतपर्वता. 2 व्याप्यवृत्तिः 3 व्यावर्तकस्य 4 विषयतावच्छेदक. [ प्रथमः ● -