पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] सोपाधिकत्वभङ्गः 199 वस्य साधनव्यापकत्वात् । नापि प्रातिभासिकत्वमुपाधिः । ताद्ध ब्रह्मज्ञानेतरबाध्यत्वम् ; तस्य च देहात्मैक्ये मिथ्याभू- तेऽप्यसत्त्वेन साध्याव्याप्तेः, व्यतिरेके व्यर्थविशेषणत्वाच । नापि प्रतिभासमात्र शरीरत्वमुपाधिः, दृष्टिसृष्टिपक्षे साधनव्या- पकत्वात्, परेषामसिद्धेश्चेति ॥ इति दृश्यत्वादीनां सोपाधिकत्वभङ्गः. लब्बेस्त प्रमाणम्' इति जैमिनिसूत्रैकदेशेन मानान्तरानुपलब्ध एव श्रुतितात्पर्योक्तेः । साघनत्वादिविशिष्टतया यागादाविव मिथ्यात्वविशि- ष्टतया दृश्यमात्र एव श्रुतितात्पर्यात् साध्याव्यापकत्वापत्तेः परमतात्पर्य - मेव निवेश्यामति भावः । दोषजन्यधीविषयत्वमपि परोक्तं साधन- व्यापकं प्रतिभासमात्रशरीरत्वमज्ञानविषयता नवच्छेदकत्वं प्रातीतिक एव सत्त्वात् साध्यं व्याप्नोति, न तु साघनमिति भावः । दृष्टीति । प्रतिकर्मव्यवस्था तु तत्पक्षे नास्तीति भावः । परेषां तत्त्ववादिनाम् । शुक्तिरूप्यादीनां अत्यन्तासत्त्वेन तत्र तदसिद्धेः साध्याव्यापकत्व- मित्यर्थः । अत्यन्तासत्त्वादेव तत्र नाज्ञानविषयावच्छेदकत्वमिति चेद- सतः सत्त्वेन धीवादिनां भवतां तस्यापि सम्भवात्, परेषां तत्त्व वादितार्किकादीनां तदसिद्धेरज्ञानाप्रसिद्धया तदप्रसिद्धोरति वाऽर्थः स्वकालत्वव्यापकस्वर्धाकत्वं तदित्युक्तमपि सुखादिषु साक्षिभास्यत्वेन । तत्प्रसिद्धावपि शुक्तिरूप्यादावत्यन्तासत्त्वेन तदसिद्धिः । तार्किकादीनामपि क्वचित्तत्सिद्धावपि क्वचिच्छुक्तिरूप्यादौ तदसिद्धिरिति साध्याव्यापकत्व- मिति भावः । चकार उक्तोपाधिषु दोषान्तराणि समुचिनोति । तथाहि -स्व- बाघ केत्यादौ स्वत्वस्यानुगतत्वेपि खबाधकबाध्यत्वं, यदि स्वजनकाज्ञाननि- वर्तकनिवर्त्यत्वं तदा जनकत्वस्य स्वावच्छेदकघटितत्वात् स्वजनकत्वस्य 1 तस्यामपि, 2. तदित्युताबपि. 2 www