पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः आभाससाम्यभङ्गः 203 आभाससाम्यभङ्गः -- ननु – विमतं प्रातिभासिकं, दृश्यत्वात्; ब्रह्म मिथ्या, व्यवहारविषयत्वात् असद्विलक्षणत्वाद्वा शुक्तिरूप्यवदित्याद्या- भाससाम्यमिति चेन्न; जगतो व्यावहारिकसत्त्वबाधे व्यव- हारानुपपत्तिः, ब्रह्मणो मिथ्यात्वे शून्यवादापत्तिश्चेति प्रति- कूलतर्कपराघातेन तयोरसाधकत्वात्, प्रकृते च प्रतिकूलतर्कस्य निरसिष्यमाणत्वात् । किंच प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वं प्रतिभासमात्रशरीरत्वं वा? आद्ये साध्ये देहात्मैक्ये व्यभिचारः, अप्रयोजकत्वं च । द्वितीये दृष्टिसृष्टिमतेन सिद्धसाधनम् । एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम् | निरुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः, वेदान्तजन्य- वृत्तिविषयत्वाभ्युपगमेऽप्यप्रयोजकः । एवमसविलक्षणत्वमपि र्मिथ्यात्वेन ज्ञातं नोपास्यमित्यत्र तात्पर्यात् । तथाच साध्यव्यापकत्व- रक्षार्थमबाध्यविषयकत्वरूपप्रमात्वनिवेशे साधनव्यापकत्वस्य दुर्वारत्वात् || सारस्वत्तैस्तर्करनैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तखण्डानामुपाघिरपसारितः ॥ इत्युपाधिभङ्गः -- आभाससाम्यमिति । उक्तानुमानाभासा यथा न साधकाः तथा प्रपञ्चमिथ्यात्वानुमानमित्यर्थः । प्रपञ्चमिथ्यात्वे नानुपपत्तिः, आभासे तु सास्तीत्याशयेनाह – न जगत इत्यादि । जगतः व्यावहारिकमात्रस्य । व्यावहारिकसत्त्वेति । अज्ञात सत्त्वेत्यर्थः । व्यव- हारेति । चक्षुरादिजन्यवृत्तिप्रत्यभिज्ञादी त्यर्थः । अज्ञातत्वावच्छेदकघटा- द्यस्वीकारे चाक्षुषादिवृत्तेः विषयोन्द्रियसम्बन्धादिजन्यायाः पूर्वदृष्टस्य दृश्य- मानेनैक्यप्रत्यभिज्ञादेश्चानुपपत्तिरिति भावः । अप्रयोजक इति । यदि ब्रह्म 1 प्रत्यक्षादी .