पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः ब्रह्मण्यसिद्धमेव । क्वचिदप्युपाधौ सवेन प्रतीत्यनर्हत्वं ह्यसत्त्वम्, तद्विलक्षणत्वं च क्वचिदप्युपाधौ सवेन प्रतीत्यर्हत्वरूपम् । तच्च शुद्धे ब्रह्मणि नास्त्येव । न च बाध्यत्वमसवं, तविलक्षणत्वं चाबाध्यत्वं, तच्च ब्रह्मण्यस्त्येवेति वाच्यम्; अबाध्यत्वेन बाध्य - त्वलक्षणमिथ्यात्वसाधने विरोधात्, शुक्तिरूप्यदृष्टान्तस्य सा- घनविकलत्वाच्च, शून्यवादस्याग्रे निराकरिष्यमाणत्वाञ्च | तस्मा- का दृश्यत्वादीनामाभाससाम्यमिति सिद्धम् ॥ 204 इत्याभाससाम्यभङ्गः. मिथ्या न स्यात्तदा वृत्तिविषयो न स्यादिति न तर्कः, मिथ्यात्वाभावेऽपि तत्र कल्पितस्य वृत्तिविषयकत्वस्य सम्भवात् । ब्रह्मणः साक्षित्वेन बाधक- प्रमाणस्य तत्रानवतारादिति भावः । तच्च शुद्ध इति । सत्तादात्म्य- सत्त्वा' न्यतरवत्त्वरूपमुक्तार्हत्वं निर्धर्मके ब्रह्माण नास्ति, किन्तु तदुप हित इति भावः । शुद्धे तत्स्वीकृतमध्यप्रयोजकमित्याशयेनाह- शून्यवा- दस्येति । यत्तु - " सुखानुभवपर्यन्त व्यवहारस्याप्यव्यावहारिकत्वस्वीकारे का व्यवहारानुपपत्तिः ? स्वप्नोत्थापिततर्कवन्न तर्कः प्रतिकूलः । किश्चे- त्याद्यपि न युक्तम् ; देहात्मैक्याप्रसिद्धेः दृष्टिसृष्टेरप्रमाणिकत्वादनु- - पाधिकस्याव्यवहारे तदसिद्धयापत्तेः । एवमित्यादिकमपि न युक्तम् ; 'स्वे महिान्न' इति श्रुत्या स्वस्मिन्नेव ब्रह्मणः प्रतीत्यर्हत्वात् मिथ्या- त्वस्यैव मन्मते तुच्छ रूपत्वात् शून्यवादस्यैव स्वयं स्वीकृतत्वेन आपत्त्यनर्हत्वात् ” इति तत्तुच्छम् ; घटादिज्ञाने अन्वयव्यतिरे- कसिद्धस्य चक्षुरादिजन्यत्वस्य प्रत्यभिज्ञादिसिद्धस्य पूर्वोत्तरकाली- नयोरैक्यस्य च व्यावहारिकत्वं स्वीकृत्यैव घटादौ व्यावहारिकत्वपक्षप्रवृत्तेः दृष्टिसृष्टेर्मुख्यत्वस्य' सिद्धान्तत्वात् । देहात्मैक्यं तु स्थापितमेव; सर्वस्यैव तत्त्वा. 2 तुच्छत्व. 3 मुख्यत्वेनास्य. , ९ , .