पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः 207 सत्त्वम्, अतो नात्माश्रयः । अतीतादिरपि कदाचित् वर्तत एवेति नाव्याप्तिः । आरोपितत्वं च कालत्रयासम्बन्धित्वेन बाधेन बोधितमिति न द्वितीयलक्षणे अतिव्याप्तिरिति वाच्यम्; प्रमात्वस्य सत्त्वघटितत्वेन चक्षुराद्ययोग्यत्वेन पूर्वोक्तदोषात्, वर्तमानत्वप्रकारकप्रमाविषयत्वेऽपि मिथ्यात्वाविरोधाच्च । द्विती- यमपि न मिथ्यात्वविरोधि; शुक्तिरूप्यस्यापि प्रतिभासकाल- सम्बन्धित्वात्, बाधेन तात्त्विककालत्रयसम्बन्धनिषेधेsपि अता- विककालसम्बन्धस्य अनिषेधात् । नापि तात्त्विककालसम्ब- न्धित्वं तत् ; तात्त्विकस्याद्याप्यनिरूपणात्, निरूपणे वा शेषवै- यर्थ्यात् । ननु भवन्मते यत् सत्वं ब्रह्मणि, तदेवेह मम । उक्तं हि — , ' यादृशं ब्रह्मणः सत्त्वं तादृशं स्याज्जगत्यपि । तत्र स्यात्तदनिर्वाच्यं चेदिहापि तथास्तु नः || ' इति । न च तत्रापरिच्छिन्नत्वं सत्त्वम्, तच्च न जगतीति वाच्यम्; तुच्छस्यापरिच्छिन्नत्वेऽपि सत्त्वानभ्युपगमाभापरिच्छि- नत्वं सत्वम् । किन्त्वन्यदेव । तच्च ब्रह्मणीव भ्रमाधिष्ठानत्वा- च्छुक्तिकादेरपि भविष्यतीति चेत्, नूनं विवाहसमये कन्यायाः पित्रा निजगोत्रं पृष्टस्य यदेव भवतां गोत्रं तदेव ममापि गोत्रमिति वदतो वरस्य भ्राता भवान् । यतो जामातृश्वशुरयोः एकगोत्रत्वे विवाहानुपपत्तिवत् जगब्रह्मणोरेकसत्वे जगतोऽसन्व- मेव स्यात् । तथाहि–स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मण- सम्बन्धित्वम् । तेन तत्तत्कालसम्बन्धित्वरूपवर्तमानत्वस्याननुगमेऽपि न क्षतिः । बाधेन तात्त्विकेति । तात्त्विकत्वेन कालसम्बद्धस्य निषेधे प कालसम्बन्धत्वेनानिषेधात् कालसम्बन्धित्वेन निषेधपक्षेऽपि प्रतियोग्यभा- 1 1 सम्बन्धस्य. 2 धात् सम्बन्धित्वेन.