पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

208 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः स्सत्त्वम् ; तदेव चेज्जडस्यापि जगतः, तदा रजतत्वविरोधिशु- क्तिसत्तया रजतस्येव जडत्वविरोधिस्वप्रकाशसत्तया जगतः स्वरू- पतो मिथ्यात्वोपपत्तेः । चैतन्यस्यैवावच्छिन्ननवच्छिन्नाज्ञान- विषयत्वेन सर्वभ्रमाधिष्ठानत्वाभ्युपगमात् न भ्रमाधिष्ठानत्वेन वयोः भिन्नसत्ताकत्वेन अविरोधादित्यर्थः । रजतत्वविरोधीत्यादि । यथा शुक्तयवच्छिन्नसत्तातादात्म्यं रजते कल्पितं व्यावहारिकरजतावृत्तित्वरू- परजतत्वविरोधादव्यावहारिकरजतवृत्ति; तथा तात्त्विकस्वप्रकाशसत्ताता- दात्म्यं प्रपञ्चे कल्पितं तात्त्विकस्वप्रकाशत्वविरोधीति अतात्त्विका स्वप्रकाशवृत्त्युच्यत इति जगतो मिथ्यात्वोपपत्तेरित्यर्थः । अवच्छिन्ने- त्यादि । अवच्छिन्नं चानवच्छिन्नं च तदवच्छिन्न । नवच्छिन्नमिति समाहारः । तादृशं यदज्ञानविषयत्वं तेनेत्यर्थः । रजतादिभ्रमोपादानाज्ञान- विषयत्वं शुक्ताद्यवच्छिन्न चैतन्यनिष्ठं वियदाधुपादाना' ज्ञानविषयत्वं तु अनवच्छिन्न चैतन्यनिष्ठमिति भावः । न अमेति । भ्रमविषये अधिष्ठान सत्तायास्तादात्म्यारोपादधिष्ठानस्याबाधाच्च सद्रूपत्वं वाच्यम् । तत्रैक- स्याश्चैतन्यव्यक्तेः सर्वभ्रमाधिष्ठान त्वसम्भवेन सद्रूपतासम्भवे तदन्यत्र तत्कल्पने गौरवं, "नेह नानास्ति, त्रयमप्येतत् स्वप्नं, मायामात्रं, ज्ञानं यथा सत्यमसत्यमन्यत्" इत्यादिश्रुतिस्मृत्यादिविरोधश्चेति भावः । यत्तु – "ब्रह्मणि यत्सत्त्वं तदेव प्रपञ्चे इत्यस्य स्वप्रकाशाद्वितीय- - चैतन्यरूपं सत्त्वं प्रपञ्चगतमिति नार्थ: ; किन्तु यादृशं ब्रह्मसत्त्वं श्रुतिगम्यं मिथ्यात्वविरोधि तादृशं प्रपञ्चसत्त्वं प्रत्यक्षादिगम्यं मिथ्या- त्वविरोधीति । ब्रह्मसत्त्वं च न स्वप्रकाशाद्वितीयत्वादिरूपं, मिथ्या- त्याविरोधित्वात्, सर्व मेयमिति ज्ञानस्य स्वप्रकाशस्यापि त्वन्मते मिथ्यात्वात्, अवेद्यत्वादिरूपस्व ' प्रकाशत्वयुक्तस्याद्वितीयस्य शून्य - , 1 सत्तादात्म्य. 2 अतात्त्विक. 3 वियदायवच्छिन्नानवच्छिन्नायुपादाना. अशून्य. 4 सर्वत्राधिष्ठान. 5 रूपस्य. 6 4 .