पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

210 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां - , सामर्थ्यात् । न हि सर्वदेशीयत्रैकालिकवृत्तिमत्प्रतियोगिकव्याप्य वृत्तिनिषेधप्रतियोगिकत्वं कस्यापि प्रत्यक्षम्; येन तदभावः प्रत्यक्षो भवेत् । वृत्तिमत्प्रतियोगिकत्वव्याप्यवृत्तित्वपरित्यागेऽ- पि सर्वदेशीयत्वत्रैकालिकत्वयोरयोग्यत्वात् । ननु स्वदेशकाल तत्त्वे गौरवादिति चेत्, सेयं मिथ्यात्वबोधकश्रुत्यनुमानादौ तवापर - चितिः । सा चापसार्यत एव । नित्यत्वेति । यदाऽऽकाशस्यात्यन्ताभाव- स्तदा तस्य ध्वंसः प्रागभावो वा वाच्यः तथाचानित्यत्वं स्यात् । यत्र द्रव्ये तस्यात्यन्ताभावः तत्र तत्संयोगो न जात इति वाच्यम् । अन्यथा अत्राकाशमिति प्रतीतेः वृत्तिनियामकतत्संयोगेन तदत्यन्ताभाव- विरोधादव्याप्यवृत्तित्वानङ्गीकारात् । वृत्त्यनियामक एव तत्संयोग इति स्वीकारेऽपि तेन तद्विरोधात् । अन्यथा धनवत्यपि निर्धन इत्यादिव्यव- हारापत्तिरित्यादेश्चित्सुखीयानुमाने उक्तत्वात् । तथाच सर्वमूर्तसंयोगि- त्वरूपं विभुत्वं न स्यात् । यद्यपि तत्संयोगिन्यपि समवायादिना तदत्यन्ताभावः तद्वत्यपि काले तत्सम्बद्धे देशावच्छेदेन तदत्यन्ताभावो वक्तुं शक्यः, तथापि तत्सम्बन्धिनि सम्बन्धान्तरेणापि न तस्यात्यन्ता- भावः ; किंतु यदीयसम्बन्धान्तरस्येति पूर्वोक्ताभिप्रायकमेतत् । अतएव नित्यजलीयरूपादावपि देशे संयुक्त तत्संयुक्तसमवायादिसम्बन्धसत्त्वेन' न तदत्यन्ताभावः । तथा सति तादृशरूपादिसमवायाद्याश्रये तत्संयोगस्या- नङ्गीकार्यतया विभुत्वभङ्गप्रसङ्गादिति भावः || [ प्रथमः यत्तु – “सर्वसंसर्गकात्यन्ताभावनिवेशात् समवायादिना सर्व- देशीयात्यन्ताभावप्रतियोगित्वेऽपि गगनादौ न सत्त्वलक्षणाव्याप्तिः" इति, तत्तुच्छम् ; सर्वसंसर्गकत्वं हि यदि सर्वसम्बन्धावच्छिन्न प्रतियोगिताकत्वं, तदाऽसम्भवः । न हि सर्वत्र सर्वैस्सम्बन्धैः किञ्चिदस्ति 2 । यदि सर्व- 1 सम्बद्धत्वेन. 2 कश्चिदस्ति.