पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः 213 - मित्युक्तम् । ननु यस्मिन् कस्मिंश्चित् स्वदेशकालवृत्तिनिषेधे एत- देशैतत्कालवृत्तिनिषेधत्वं ज्ञात्वा तेन प्रत्यासत्तिभूतेनोपस्था- पितानां स्वदेशकालवृत्तिसकलनिषेधानां प्रतियोगित्वस्याभावो घटे ग्राह्यः । ततस्सार्वदिक्सर्वदेशीयनिषेधप्रतियोगित्वस्य ग्रहणं घटे दुर्घटमिति चेन्न; एवं सामान्यलक्षणया सर्वनिषेधेषूप- स्थितेष्वपि तत्प्रतियोगित्वाभावस्य चक्षुरादिना ग्रहीतुमशक्य- त्वात् । योग्यप्रतियोगिक एव हि संसर्गाभावो योग्यः । सामान्यस्य पटादिनिष्ठस्य घटादावभावसत्त्वात्तत्र लक्षणसङ्गतिः । पूर्वोक्तस्य मिथ्यात्वस्याभावः सत्त्वमित्युक्तौ तुच्छेऽपि तत्सत्त्वा- दतिव्याप्तिः । अतस्तथा नोक्तम् । अयोग्यत्वमुक्तात्यन्ताभावे इन्द्रियसन्नि- कर्षा भावात्प्रत्यक्षाविषयत्वमिति भ्रान्त्या शङ्कते – नन्वित्यादि । उक्ता- भावेषु सामान्यलक्षणसन्निकर्षसत्त्वेप्युक्ताभावप्रतियोगित्वं यदि घटादौ स्यात्तदोपलभ्येतेत्यापादनासम्भव : ' उक्ताभावप्रतियोगित्वस्य तत्र सत्त्वेपि तन्निरूपकाभावानां अतीन्द्रियत्वाल्लौकिकसन्निकर्षाद्यभावाच अनुप- लब्धिसम्भवात् । अतः उक्तप्रतियोगित्वाभावस्य न लौकिकप्रत्यक्ष- विषयत्वम् । अतएव दीघित्यादावुक्तं – “ यथा विद्यमानमपि वह्नित्वे रासभादिदेशनिष्ठाभावप्रतियोगितावच्छेदकत्वं न गृह्यते, अभावदे- शविप्रकर्षादिना ग्राहकाभावात् तथा धूमवन्निष्ठाभावप्रतियोगितावच्छेद- कत्वमपि " इति । नानुपलब्धेः प्रतियोगिसत्त्व विरोधित्वरूपयोग्यतेति तदभावो नाध्यक्ष इतीत्या शयेनाह – नैवं सामान्येत्यादि । योग्य- प्रतियोगिक इति । स्वप्रतियोग्युपलम्भापादकता' योग्यप्रतियोगिक इत्यर्थः । संसर्गाभाव इति । अभावमात्रं विवक्षितम् । येन संसर्गेण यत्र यस्य प्रतियोगिनः उपलम्भापादकत्वं तेन संसर्गेण तत्र तस्याभावः प्रत्यक्ष इति ज्ञापयितुं संसर्गपदमुक्तम् । एतेन- 19 " 1 संभवात्. 2 भावं. 3 पादकतया. 2