पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः 1 योग्यः, घटे आकाशत्वाभाववत् घटे आकाशत्व सत्त्वे तस्यानेकवृत्तित्त्वा- ज्जातित्वापत्त्योपलम्भापादनवत् घटे तादृशाभावप्रतियोगित्वापलम्भस्य आपादनसम्भवात् घटवृत्ते: संसर्गाभावप्रतियोगित्वस्य प्रागभावप्रति- योगित्वादिवत् योग्यत्वात् प्रतियोगित्वस्य स्वरूपविशेषरूपत्वात् घटादि- ज्ञानानन्तरं अयमिहैव नान्यत्रेत्यन्यनिष्ठात्यन्ताभावप्रतियोगित्वस्यानु- भवात् । अन्यनिष्ठात्यन्ताभावस्तु न चक्षुरादिग्राह्यः, विशेष्यसन्निकर्षा- द्यभावात् । न च घटादौ सर्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वाभावे दृष्टान्ताभाव इति वाच्यम्; मन्मते शुक्तिरूप्यादेस्तादृश प्रतियोगित्वस्य शुक्तिरूप्यादेस्तादृशप्रत्तियोगित्वस्य साक्षिभास्यस्य सत्त्वेन दृष्टान्तत्वात् तार्किकादिमते तु व्यतिरेकेण दृष्टान्तत्वसम्भवात् । एवं स्वसमानाधिकरणेत्यादिरूपं सत्त्वमपि योग्यम्, उक्तरीत्या उपलम्भापादनसम्भवात्" इति प्रलपितं, तत् स्वमतिः प्रकटिता । प्रागभावस्य हि सत्त्वे तत्प्रतियोगित्वं प्रत्यक्षं तदसत्त्वे वा, नाद्यः; तदा स्वाश्रयासन्निकर्षण तत्प्रतियोगित्वस्य प्रत्यक्षासम्भ- वात् । अन्त्येपि तस्य प्रागभावप्रतियोगितात्वेन प्रत्यक्षं प्रतियोगितात्वेन, तद्व्यक्तित्वेन वा, नाद्यः; प्रागभावासन्निकर्षात् । न द्वितीयः; सम्ब- न्धिता वच्छेदकरूपेण प्रत्यक्षं प्रति सम्बन्धितावच्छेदकरूपेण प्रत्यक्षस्य हेतुत्वात् प्रागभाव प्रत्यक्षे तेन रूपेण प्रत्यक्षासम्भवात्, अन्त्यकल्पे वक्ष्यमाणदोषाच्च । नान्त्यः; तावतापि यथा तद्व्यक्तित्वेन उपलब्धि- रापादयितुं शक्यते न तु प्रागभावप्रतियोगितात्वेन, तथोक्तात्यन्ताभाव- प्रतियोगितात्वेनोपलम्भो नापादयितुं शक्यत इति तदवच्छिन्नाभावस्या - योग्यत्वानपायात् । अतएव 'घटत्वत्वादिना नाभावप्रत्यक्षता' इति शिरोमणिः । अयं नान्यत्रेत्यनुभवस्तु नानुपपन्नः सन्निकृष्टस्वानधि- करणनिष्ठाभावप्रतियोगित्वप्रत्यक्षसम्भवाद्विशेष्यसन्निकर्षाभावात् । अत्य- न्ताभावो न प्रत्यक्ष इति तु शोभतेतमां, तथा सति महावायावुद्भूत- , 1 2 घटव्यक्तेः. घटाकाशत्व. 3 सत्त्वे न. 4 संबन्धता. तत्प्रागभावा. 5 215