216 अद्वैतसिद्धिव्याख्याया गुरुचन्द्रिकायां [प्रथमः , योग्यम् । वस्तुतस्तु सामान्यं नेन्द्रियप्रत्यासत्तिः, मानाभा- वात् । न च महानसीयधूमेन्द्रियसंयोगेन तत्रैव व्याग्रिहे पर्वतीय धूमादनुमितिर्न स्यात्, सामान्यस्य च धूमत्वादेः प्र त्यासत्तित्वे तस्यापि प्रत्यासन्नत्वात्तत्र व्याप्तिग्रहे ततोऽनुमिति - रिति वाच्यम्; पर्वतीयधूमेन्द्रियसन्निकर्षदशायां धूमत्वेन - प्रकारेण गृहीतस्मृतव्याप्तेः तत्र वैशिष्टयग्रहसम्भवात् । 'सुरभि चन्दनम्' इतिवत् विशेष्यन्द्रियसन्निकर्षविशेषणज्ञानासंसर्गा- रूपात्यन्ताभावादेरपि प्रत्यक्षत्वासम्भवात् । न च यथा मनस्तत्त्वेन रूपेणो- पलब्ध्यापादनं न सम्भवति तस्य मनोभिन्नावृत्तित्वादिघटितत्वेनाती- न्द्रियत्वात् अथ च मनम्त्वाभावः प्रत्यक्षः, तथोक्तप्रतियोगित्वाभावोऽपि च प्रत्यक्ष: स्यादिति वाच्यम् । मनस्त्वं यदि घंटे स्यात् तदा मनसो योग्यत्वेन तत्समवेतत्वेन मनस्त्योपलब्ध्यापत्त्या तेन रूपेणैव तदभावस्य प्रत्यक्षात् । मन्मते इत्यादिकं तु स्वपित्रादीन् प्रत्येव वाच्यम् । यादृशाभावो न्यायादिमते प्रत्यक्षस्तस्यैव त्वया साक्षिभास्यताया वाच्य- त्वात्, अन्यथा अतिप्रसङ्गात् । तार्किकादीनां तु वाक्यमुक्तमेव, तत्तु त्वय तथा प्रलपता स्वप्नेऽपि न श्रुतमित्यलमव्युत्पन्न विडम्बनया | ननूक्त- प्रतियोगित्वाभावस्य लौकिकप्रत्यक्षासम्भवेऽपि उक्तरीत्या सामान्यप्रत्यास- त्त्या ज्ञानप्रत्यासत्त्या वा अलौकिक प्रत्यक्षमस्तु; तत्राह-वस्तुतस्त्वित्या- दि । विशेष्येन्द्रियसन्निकर्षेति । मुख्यविशेष्येन्द्रिययोः लौकिकसन्नि- कर्वेत्यर्थः । बहिरिन्द्रियाणां स्वलौकिकसन्निकृष्ट मुख्यविशेष्यकज्ञानजन- कत्वनियमान्मुख्यावशेष्यांशे लौकिकसन्निकर्षस्य बहिरिन्द्रियजन्यप्रत्यक्षे अपेक्षेति भावः । यो यत्र पुरा अवगतः स एव तत्र संस्कारवशादलौकिकप्रत्यक्षविषयोऽन्यत्रानुमानादिति प्राचीनतार्किकादि- मते, उपनयसन्निकर्षास्वीकारमते च महानसीय एव स्मृतव्याप्तेः 1 मानसत्वत्वेन.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति