पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः योगिकः तन्निष्ठसांसर्गिकविषयता निरूपिततत्प्रकारता कधीत्वं तत्सम्बन्धस्य तत्र तत्सम्बन्धे तस्य च भ्रमत्वं तदा एकोक्तयसम्भवः । न चोक्तज्ञानं घटादौ रूपस्यैव भ्रमः न तु रूपे संयोगस्येति वाचम् ; व्यधिकरण- धर्मावच्छिन्नाभावास्वीकर्तृमते व्यधिकरणसम्बन्धावच्छिन्नाभावास्वकार- स्याप्यौचित्येन घटत्वेन पटो नास्तीत्यत्र पटे घटत्ववैशिष्टयस्येव संयोगेन रूपं घंटे नास्तीत्यत्र रूपे संयोगवैशिष्टयस्य अभावभानौचित्येन तादृश- घीबाध्यस्य संयोगेन रूपवान् घट इति ज्ञानस्य रूपे संयोगभ्रमत्वाचि- त्यात् उक्तज्ञानस्य उक्तषबाध्यत्वं चानुभवबलादेव कल्प्यम्, संयोग- ससंर्गकज्ञानस्यापि संयोगाभावप्रकारकधीबाध्यत्ववत् । ननु प्रतियोगिनि विशेषणमेव प्रतियोगितावच्छेदकमिति नियमेन घटो नास्तीत्यादिज्ञानस्य प्रतियोगिनि विशेषणप्रम।त्वमेव विशेषणीभूतघटत्वादेः प्रतियोगितावच्छेद- कत्वप्रमात्वे नियामकं', अन्यथा घटत्वावच्छिन्नाभावः पटत्वावच्छिन्नप्रति- योगिताक इत्यादिज्ञानस्यापि प्रमात्वापत्तेः । तथाच घटत्वेन पटो नास्तीति ज्ञानं न घटत्वादौ प्रतियोगितावच्छेदकत्वस्य प्रमा, संयोगेन रूपं नास्तीतिं ज्ञानं तु संयोगादौ सम्बन्धे प्रतियोगितावच्छेदकत्वस्य कुतो न प्रमेति चेत्, तादृशयुक्तेरेव । न हि संयोगेन घटो नास्तीति ज्ञाने संयोगादिसम्बन्धो घटांशे विशेषणीभूतोऽपि प्रति- योगितावच्छेदकः, घटत्वादिकं तु न तथेति वैषम्ये मानमस्ति । न च पूर्वमज्ञातस्य संयोगादेर्विशेषणत्वासम्भवेपि प्रतियोगिता वच्छेदकत्वधरिति वाच्यम्; विशिष्टबुद्धयादौ विशेषणधीहेतुत्वा- स्वीकर्तृनव्यमते तथोक्तेरसम्भवात् । न च रूपे संयोगाभावनिर्ण- १ 221 2 सम्न्धविधया. 1 घटत्वादिप्रमात्वमेव घटत्वादी प्रतियोगितावच्छदकत्वेन नियामकम् । अन्यथा घटसामान्याभावः पटत्वत्वा वच्छिन्न प्रतियोगिताकः । पा. 3 भ्रमो. 4 तादृशे युक्तज्ञानप्रतियोगिनि संयोगस्याविशेषणत्वेपि वच्छेदकतया भानं रूपत्वस्य तत्र विशेषणतयैव. पा. 6 प्रतियोगिनि विशेषणत्वासम्भवेपि. प्रतियोगिता- 5 पूर्वज्ञातस्य.