पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः) प्रत्यक्षबाधोद्धारः 223 " न च तथाऽपि तव्यञ्जकत्वात्तदपेक्षेति वाच्यम् स्वरूपसत एव ताहक्तेजोविरहस्य तमोव्यञ्जकत्वं, न तु ज्ञातस्य, माना- जात्या प्रतिबन्धकत्वात् तमो नाभावः, कपालादौ घटादिरिव घटादौ तदवाच्छन्न चैतन्यगतमूलाविद्यापारणामस्तम इति तत्रतत्र तत्ता- दात्म्यात् तत्काले न चाक्षुषम्, प्रभादौ तदभावाच्चाक्षुषम् । न तमोध्वंसश्चालोक'संयोगादिरूप इति न तत्कल्पने गौरवम् । न चैवं तमोऽभावत्वेन कारणत्वे गौरवात् द्रव्यचाक्षुषहेतुत्वेन वस्त्वन्तरमेव सिद्धयेतेति वाच्यम्; प्रतिबन्धकाभावस्य सिद्धान्ते हेतुत्वा स्वीकारात्, प्रतिबन्धकस्य कार्याभावं प्रति क्षेमसाधारणजनकत्वमात्राभ्युपगमात् । प्रतिबन्धकाभावाधिकरणं यः प्रतिबन्ध काभावसहितकारणकूटक्षणोत्तर- क्षणः तत्त्वस्यैव कार्यव्याप्यतया प्रतिबन्धककाले न कार्योत्पत्त्यापत्तिः । अथवा स्वावच्छिन्न प्रतियोगितानिरूपकत्वसम्बन्धेन स्वनिरूपकत्व- सम्बन्धेन वा तमस्त्वमभावनिष्ठ कारणत्वावच्छेदकं प्रतियोगितायाः स्वाव- च्छेदकधर्मरूपत्वेन तमस्त्वाभिन्नप्रतियोगितानिरूपकत्वमभावेऽपि । वस्तुतस्तु तमस्त्वावच्छिन्नाभावव्यक्तिस्तद्वयक्ति त्वेनैव हेतुः तच सैव व्यक्तिस्तन्निष्ठधीविशेषविषयत्वं वत्यन्यत् । न च तद्व्यक्तेः स्वरूपतो भानाभावात् स्वरूपतो नावच्छेदकत्वमिति वाच्यम्, स्वरूपतो भानाभावेऽपि स्वरूपतोऽवच्छेदकत्वे बाधकाभावात् । किञ्च उक्तकारणत्वेन भावान्तरसिद्धौ तदभावेन नीलं तम इत्यादिप्रतीतेरनिर्वाहात्तमसो भावत्वावश्यकत्वेन तदभावस्यैव उक्तकारणत्वसम्भवेन तद्धेतुत्वेन भावान्तरं न कल्प्यते गौरवादित्यास्तां विस्तरः || , न तु ज्ञातस्येति । अलोकस्य तमोनाशकत्वात्तमस आलोका- भावप्रयुक्तत्वेन तमोजन्यस्य तमश्चाक्षुष' स्यालोकाभावप्रयोज्यत्वं; तत्र च न ज्ञानमुपयुज्यते । उक्तं च विवरणे – 'आलोकविनाशितस्य 1 तमोध्वंसाञ्चालोक. 2 व्यक्तितद्वयक्ति. 3 तद्वचाक्षुष.