पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः 229 -- शायां धूमज्ञानात् प्राक् नास्त्येव । निर्विकल्पके मानाभा- वात् विशिष्टज्ञानत्वेन विशेषणज्ञानत्वेन च कार्यकारणभावा- नभ्युपगमात् अवश्यक्ऌप्तकार्यकारणभावविशेषेणैव सर्वव्यव हारोपपत्तेः । न च धूमत्वेन समिकृष्टधूमव्यक्तिज्ञानानन्तरं तत्समानाकारमसन्निकृष्टधूमगोचरं ज्ञानान्तरमुत्पद्यत इत्यत्र सम्बन्धेनाततिादावपि तदस्तीति तत्रापि विशेष्यतया प्रत्यक्षोत्पत्तिरिति भावः । नन्वनवाच्छन्न प्रकारतया ज्ञानं जन्य प्रत्यक्षं वा प्रत्यनवच्छिन्न- विषयतया' सम्बन्धेन सविषयकत्वेन हेतुत्वमवश्यं वाच्यम्, अन्यथा जातिमानिति प्रत्यक्षस्य नियमेन घट इत्याद्या कारकत्वं स्यात् सन्नि- कर्षादेरविशेषात् ; ज्ञानोपरमेऽपि इच्छा धनुव्यवसाये घटादेः प्रकारत्वात् ज्ञानत्वेन हेतुत्वम्, अनुव्यवसायस्य साक्षित्वेनाजन्यत्वे तु ज्ञानत्वेनैव हेतुत्वमित्यत्राह – अवश्येति । अयं घट इत्यादिसधर्मिताबाच्छेदक- बुद्धेः बाधाभावप्रयोज्यत्वात् निर्धर्मितावच्छेदघट इत्यादिबुद्धेरपीष्ट- विषयान्तरजिज्ञासादिरूपप्रतिबन्ध काभावप्रयोज्यत्वात् तादृशप्रतिबन्धक- त्वस्य च जातिमानिति प्रत्यक्षं भवतु; घट इति प्रत्यक्षं भवत्वित्यादी - च्छोत्तेजका'नुरोधेन पृथक्तात् जातिमानिति घीकाले घट इत्या- दिघीसामग्रया अनावश्यकत्वेन जातिमानिति ज्ञानस्य नियमेन घट इत्याद्या कारकत्वासम्भवात् किंच उक्तप्रकारतासम्बन्धेन प्रत्यक्षे न विशेषणधीहेतुत्वम् अनन्तनिर्विकल्पक कल्पनागौरवात् ; किन्तु अन- वच्छिन्नविषयतासम्बन्धेन प्रत्यक्षं प्रति क्लृप्तसंयोगादरेव स्वाश्रयसम- वायेन विजातीयत्वेन हेतुत्वम् । अलौकिकप्रत्यक्षं तु अनवच्छिन्ना प्रकारतापरामर्शादिनियम्येति भावः । ननु धूमनिष्ठविशेष्यतया प्रत्यक्षं प्रति स्वाश्रयनिष्ठविषयतया धूमत्वं हेतुः, तथाच ज्ञानान्तरानुत्पादेऽपि न क्षतिः, चक्षुस्संयुक्तसमवायादेः सहकारित्वात् तद्भावकाले न 2 विषयता. 3 तेजकता. 1 ज्ञानजन्य. 4 प्रत्यक्षण. 9 १