पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 231 विशेषणाददोष इति चेत् न विशेषणज्ञानत्वेनैव तस्य जनकता वाच्या, तस्याः प्रागेव निरासात् स्वरूपसम्बन्धविशेषाभ्यु- पगमे च अनिर्वचनीयवादापत्तेरित्यादिदूषणानि बहुतरमूहनी- प्रत्यक्षबाधोद्धारः यत्प्रमेयं तदभिधेयमितीत्यर्थः । विशेषणादिति । घटत्वज्ञानजन्यत्वमेव घटत्वप्रकारकत्वमित्यर्थः । निरासादिति । यत्र घटत्वादौ प्रमेयत्वा- भिधेयत्वयोः सहचारं गृहत्विा व्याप्तिर्गृहीता तत्र घटत्वज्ञानजन्यत्वमपि व्याप्ति वर्तते । न च स्वरूपतो घटत्वज्ञानजन्यत्वं वाच्यम्, उक्तस्थले च प्रमेयत्वाधिकरणत्वेन तद्ज्ञानं न स्वरूपत इति वाच्यम् ; तथाप्ययं घटभिन्नवानिति निश्चयस्य घटभिन्नत्वसामान्यलक्षणाजन्य- स्योक्तसंशयविरोधित्वापत्तेः । ननु - प्रकाशस्य सतस्तदीयतामात्ररूपः स्वभावविशेषो विषयतेति बौद्धाधिकारे उक्तम्, तत्र तदीयता तत्सम्बन्धित्वं प्रकाशस्य ज्ञानस्य, तथाच ज्ञानस्वरूपविशेष एव अर्थेन सह ज्ञानस्य सम्बन्ध इत्यर्थः । सामान्यतो विषयता ज्ञानमेव, घटादिविषयता तु घटादीयत्वेन अनुगताः ज्ञानविशेषाः संयोगविशेषा इव घटादीनां, सम्बन्धव्यवहारनिमित्तं च ज्ञाननिष्ठमर्थसम्बन्धित्वं, न त्वर्थनिष्ठं ज्ञानसम्बन्धित्वं, अतीताना- गतानुरोधात्, सम्बन्धसम्बन्धिनोश्चाभेदो न दोषाय, सर्वत्र स्वरूप - सम्बन्धस्थले तथा कल्पनादिति शिरोमणिः । तथाच घटत्वप्रकार- कज्ञान' मुक्तसंशयविरोधि; प्रकारकत्वं च ज्ञानविशेषरूपमिति प्रमेयमि- त्याद्याकारकज्ञानस्य अतथात्वादविरोधित्वमित्यत आह -स्वरूपेति । स्वस्य स्वं न सम्बन्धः, स्वं न स्वीयमित्यनुभवात्, अथ केनचित् रूपेण स्वस्यापि स्वातिरेकं स्वीकृत्य स्वप्रतियोगिकसम्बन्धत्वं वाच्यम्; तथापि तादृशकिञ्चिद्रूपविशष्टस्य स्वरूपस्य स्वभिन्नत्वे स्वभेदो ● स्वाभेदो. 1 मान.