पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधांद्धारः त्वानुयोगित्वयोरेव प्रकारताविशेष्यतारूपत्वसम्भवेन तदतिरिक्ततत्कल्पने मानाभावः । न च दण्डपुरुषसंयोगा इत्यादिसमूहालम्बने दण्डादेः प्रकारत्वापत्तिः, संयोगेन रूपवानित्यादिज्ञाने च रूपादेः प्रकारत्त्वं न स्यादिति वाच्यम्; भासमानेत्यस्य वैशिष्टयप्रतियोगित्वानुयोगित्वयोश्च विशेषणत्वात् । तथाच सांसर्गिक विषयतामतिरिक्तामङ्गीकृत्य संयोगादि- निष्ठसांसर्गिकविषयतानिरूपितसांसर्गिकविषयताश्रययोः प्रतियोगित्वानु- योगित्वयोः प्रकारताविशेष्यतारूपत्वमुच्यते । न च प्रकारतां विशेष्यतां वा अतिरिक्तां उपेत्य' प्रकारताश्रयप्रतियोगिकत्वं विशेष्यताश्रयानुयोगि- कत्वं वा सांसर्गिकविषयत्वमित्येवास्त्विति वाच्यम्; संयोगेन रूपवानित्या- दिज्ञाने कालिकसम्बन्धस्यापि संसर्गत्वापत्तेः संयोगादे: संसर्गत्वाभावा- पत्तेश्व, संयोगादेः रूपादिप्रतियोगिकत्वाभावात् । न च अतिरिक्तप्र- कारतादिस्वीकारे संयोगनिष्ठसंसर्गतानिरूपितघटादिप्रकारता कज्ञानत्वेन कारणताद्यवच्छेदके निवेशे लाघवम् उक्तसंसर्गतानिरूपिता या घटादि- प्रतियोगित्वसंसर्गता तच्छा लिज्ञानत्वेन निवेशे तु गौरवमिति वाच्यम्; उक्तगौरवापेक्षया प्रकारताविशेष्यतयोरतिरिक्तयोः कल्पने गौरवात् । संयोगे तत्प्रतियोगित्वानुयोगित्वयोश्च एकस्या एव सांसर्गिक विषय- तायाः सम्भवेन संयोगनिष्ठा या तच्छालिज्ञान- , त्वेन निवेशसम्भवाच्च । एतेन – 'संयोगसंसर्गतानिरूपितसंसर्गता- द्वयकल्पने तत्स्थाने प्रकारताविशेष्यते एव कल्पयेते इति न गौरवम्' इति परास्तम्: स्वप्रतियोगिकसंयोगानुयोगित्वसम्बन्धेन घटादिप्रकारताकज्ञानस्थले तादृशसंसर्गताद्वयस्य अनुव्यवसायसिद्धत्वात् । अतएव केवलसंयोगेन घटाभावनिश्चयोत्तरं तादृशबुद्धे त्वन्मते उत्प- त्यापत्तिः, स्वाश्रयसंयोगेन घटवत्ताबुद्धेः तत्प्रतिबध्यत्व वारणाय घट- प्रकारतानिरूपितसंयोगसंसर्गताशालिज्ञानस्यैव त्वन्मते तत्प्रतिबध्य- अभ्युवेस्य. , 235