पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः 3 टुक्तदोषतादवस्थ्यमिति चेन्न; तादात्म्यस्यातिरिक्तत्वात् । अन्यथा अयं तादात्म्येन संयुक्तवान् संयोगेन संयुक्तवानिति धियोर्वेलक्षण्यानु- पपत्तेः, संयोगवत्त्वावच्छिन्नस्य तादात्म्यप्रतियोगित्वस्य तद्धटे सत्त्वेऽपि तद्घटत्वावच्छिन्नं यत्संयोगप्रतियोगित्वम् तन्निरूपितानुयोगित्वस्य अस- त्वात्, तद्वति संयोगेन तद्धटप्रकारकत्वस्य प्रमात्वरूपत्वेन दोषा- भावाच्च । अतएव स्वस्मिम् तद्घटस्य संयोगो नेति व्यवहारः प्रमा- णम् । अतएव उक्तशिरोमणिवाक्ये प्रतियोगित्वाधिकरणत्वयोः अति- रिक्तत्वमुक्तम् । तस्य सम्बन्धप्रतियोगित्वयोः अभाव प्रतियोगित्वा- देश्च अतिरेक परत्वात् । परमार्थतस्तु संयोगेन घटवद्भुतलमित्यादौ संयोगादिसम्बन्धनिष्ठसांसर्गिक विषयताया एव अतिरिक्ताभ्यां घट- भूतलप्रतियोगित्वानुयोगित्वाभ्यां निरूपितत्वं स्वीक्रियते, अत्र ज्ञाने घटस्य भूतले संयोगसम्बन्ध इति प्रत्ययात् । स्वाश्रयसंयोगादि- संसर्गकज्ञाने च संयोगादिनिष्ठसांसर्गिकविषयतायाः न ताभ्यां निरूपि तत्वं, तथा प्रत्ययाभावात्, स्वाश्रयसंयांगादिसंसर्गकात् घटवद्भूतल मित्यादि ज्ञानात् संयोगेन घटवद्भुतलमिति घीकार्यापित्तेश्च । उक्त- ज्ञानयोः वैलक्षण्यान्तरस्वीकारे गौरवात् । अतएव बयादिप्रति- योगिकपर्वताद्यनुयोगिकसंसर्गता संयोगादावस्तीति प्रतियोगिवैयधि करण्यनिरूपणप्रस्तावे व्याप्तिसिद्धान्तलक्षणे हरिदासादिभिरुक्तं शिरो- मणिटीकायाम् । एवंच घटवद्भूतल मित्यादिज्ञाने यदि घटादौ विष- यत्वमपेक्षितं, तदा घटादे: ज्ञानसामान्यसामग्रया घटादौ निर्विकल्प- कीयविषयतानियामकत्वम् । अथ विशिष्टबुद्धयांदौ विशेषणज्ञानादि- हेतुत्वे मानाभावात् न तदपेक्षा, तदा तद्ज्ञानाविषयस्यापि घटादेः 238 1 सत्त्वासंयोगेन. 2 भाव. 3 अनतिरेक. 4 मित्याकारक. 5 घटवद्भूतल- मितिज्ञानस्य विशेषणज्ञानादिविधया विशिष्टबुद्धयादिहेतुत्वाद्धटवद्भूतल इत्यधिकः पाठः.