पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकाया [ प्रथमः कानन्ताधिष्ठान कल्पने गौरवात्, अधिष्ठेयतुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव हि अधिष्ठानं भवति । 'मिथ्यारू- प्यम्, असन्भृशृङ्गम्' इत्यादौ मिथ्यात्वासत्त्वयोराधष्ठानत्वश- कापि नास्तीति शून्यवादापत्तेः । तत्र चानुपपत्तिरुक्ता, वक्ष्यते च । यत्तु 'सत्यं ज्ञानमनन्तम्' इत्यत्रापि तथा स्यादिति, तन्न; यतो न तत्र सत्तासम्बन्धेन सत्त्वम्, किन्तु स्वरूपेणैवेति उक्तदोषानवकाशात् । न चैवं घटादावपि स्वरू- पणैव तथात्वम् पूर्वमेव निराकृतत्वात् । किं च निश्चित नीलादि प्रत्येकं वा अधिष्ठानमित्यत्र विनिगमकमाह - अधिष्ठेयतुल्य- योगक्षेमत्वादिति । मिथ्यात्वादित्यर्थः || 254 अधिष्ठेयविषमसत्ताकमिति | यत्प्रमया यदुपादानाज्ञाननिवृत्ति- स्तत्तदपेक्षया अधिकसत्ताकं वाच्यं, अन्यथा तथा सा न स्यात् । नीला- दिकं च घटाद्यपेक्षया न तथेति भावः । अथवा अधिष्ठेयविषमसत्ताकं तात्त्विकं, अतात्त्विकस्य नाधिष्ठानत्वमज्ञानविषयत्वरूपं सम्भवति, जडत्वेनैव प्रकाशासम्भवेन तद्वैयर्थ्यादिति भावः । न चाधिष्ठानावच्छे- दकतया नीलादि भासतां इदं रजतमित्यादाविदमादिवदिति वाच्यम्; घटत्वादिवन्नीलादेः प्राक् सत्त्वं; अतएव तदवच्छिन्नचैतन्यस्याज्ञान- विषयत्वस्य वाच्यतया तन्मते घटत्वादिवत् नीलादेरपि सद्रूपानति - रेकसम्भवात्, अधिष्ठान स्यैव सम्भवात् अधिष्ठानावच्छेदकतया सामानाधिकरण्यस्यापीष्टत्वसम्भवाच्च मिथ्यात्वासवयोः मिथ्यातुच्छ - योः । तेन परमते मिथ्यात्वासत्त्वयोः नीलादितुल्यत्वेऽपि न क्षतिः । शङ्कापीति | नीलादेस्तु सत्त्वशङ्कया अधिष्ठानत्वशङ्का सम्भवतीति भावः । स्वरूपेणेति । त्ररूपानतिरिक्तमित्यर्थः । तथाच सत्तायां सद्व्य- वहारः सत्तान्तराविषयक इति परेषामपि सम्मतमिति भावः । 1 1 त्व.