पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] 255 प्रामाण्यमेव प्रत्यक्षमितरबाधकं भवेत् । न चात्र प्रामाण्यं निश्चितम्, आगमविरोधात्, अनुमानविरोधात्, भाविबाधा- भावानिर्णयाच्च । ननु प्रत्यक्षमेव प्रबलमनुमानागमबाधकम्, नानुमानागमौ, प्रत्यक्षाप्रामाण्ये तद्विरोधाभावेनानुमानागमयोः प्रामाण्यम्; तयोः प्रामाण्ये च तद्विरोधात्, प्रत्यक्षाप्रामा- ण्यमित्यन्योन्याश्रयात् । न हि प्रत्यक्षस्य प्रामाण्येप्येवमन्यो- न्याश्रयः, तस्यानपेक्षत्वादिति चेन; चन्द्रतारकादिपरिमाण- प्रत्यक्षे अनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात्, तेनापि स्वप्रामाण्यसिद्ध्यर्थमितराविरोधस्य अवश्यमपेक्षणीयत्वात् । तथाचान्योन्याश्रयतुल्यत्वात् परस्परविरोधेन प्रामाण्यसन्देहे सत्यनाप्ताप्रणीतत्वादिना प्रमाजनकत्वव्याप्तेः वेदप्रामाण्यनि- श्वये जाते तेन स्वतस्सम्भावितदोषस्य प्रत्यक्षस्य बाधात् अस्मन्मते क्वान्योन्याश्रयः । अन्यथा देहात्मैक्यप्रत्यक्षबुद्धया बाधात् देहभिन्नत्वमप्यात्मनो नागमानुमानाभ्यां सिद्धयेत् । ननु प्रत्यक्षमनुमानाद्यपेक्षया जात्यैव प्रबलम् कथमन्यथा औष्णयप्रत्यक्षेण वह्निशैत्यानुमितिप्रतिबन्धः ? न च तत्रोप- जीव्यत्वनिबन्धनं प्रत्यक्षस्य बाधकत्वम्, धर्म्यादेचक्षुरादिनैव सिद्धेस्त्वचोऽनुपजीव्यत्वात् । किञ्च प्रत्यक्षस्य प्राबल्यमनुमाद्य- गृहीतरेखोपरेखादिग्राहकत्वादनुमानाद्यनिवर्तितदिङ्योहादिनिव- र्तकत्वाचेति चेन्न ? त्याचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानु- मितिप्रतिबन्धकत्वसम्भवात्, चक्षुरादिना धर्म्यादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा न जात्या प्राबल्ये मान- मस्ति । तद्गृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम्, प्रत्यक्षा- गृहीतधर्मादिग्राहकत्वेन परोक्षप्रमाणस्यैव प्राबल्यापत्तेः । नाप्य- अनुमानविरोधात् । तर्कसहकृतत्त्वेन बलवदनुमानविरोधात् । प्रत्यक्षबलखण्डनम्