पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबबलखण्ड नम् 'क्वचित्प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ।' इति तु परीक्षितप्रामाण्य प्रत्यक्षविषयम् । भ्रमं प्रति तादृशविशिष्टविषयकतया यन्निवर्तकं ततस्तत्प्रबलं, प्रत्यक्ष- विषयविषयकतया ' च श्रुतिर्नोक्तभ्रमनिवर्तिका, धर्मस्य प्रत्यक्षागोचरत्वा दिति चेन्न; आप्तोपदेशादिना शुक्तयादौ रजतादिप्रत्यक्षनिवृत्तेरानुभावि- कत्वेन शब्दात् प्रत्यक्षस्य प्राबल्यासिद्धेः वंशोरगादिस्थलीयापत्तेः तथाप्य- नुद्धाराच्च । यत्प्रमाणविषयगतेत्याद्यपि न युक्तम् ; प्रत्यक्षविषययागादि- गतस्यालौकिक श्रेयस्साघनत्व रूपधर्मत्वादेः ग्राहकत्वात् शब्दस्य प्रत्य- क्षात्प्राबल्य सम्भवात् । किञ्चतीन्द्रियं प्रत्यक्षागृहीतं घटादिगतं गुरु- त्वादिविशेषमनुमानादि गृह्णातीत्यतो यत्प्रमाणफलागृहीतविशेषस्य यत्प्र- माणफलं ग्राहकं ततः तत्प्रबलमिति न नियमः | नापि फलवृत्तिजाति- विशेष विशिष्टागृहीतविशेषान्तर्भावेन नियमः, गुरुत्वादिकं च न प्रत्य- क्षत्वविशिष्टागृहीत मीश्वरप्रत्यक्षगृहीतत्वादिति वाच्यम्, शाब्दत्वादि- जातिविशिष्ट गृहीतविशेषाप्रसिद्धेः केनचित्पुरुषेण तदादिशब्दैः बुद्धि- विशेषविषयत्वादिरूपेण विशेषमात्रगृहीतसङ्केतैः स्वरूपत एव सर्वविशेष- ग्रहणसम्भवात् ईश्वरीयेन विवरणायुक्तमा विविषयकानुमितिरूपेण ज्ञा- नेन सर्वविशेषाणां गृहीतत्वाच्च, प्रत्यक्षत्वजातेरस्मन्मते अलीकत्व- स्योक्तत्वाच्च यदपि च त्वाचप्रत्यक्षत इत्यादेः परीक्षितप्रामाण्यकप्रत्यक्ष- विषयकत्वेऽपि अस्मदिष्टसिद्धेः सन् घट इत्यादिरपि फलपर्यन्तं परीक्षित- त्वादित्यादिरोदनं, तत् देहात्मज्ञानस्य स्वाप्मादिज्ञानस्य च फलपर्यन्तं परीक्षितत्वेऽपि दुर्बलत्वाद्धेयम् । पाश्चात्यबाधादिकं तु तुल्यम् । परी - क्षितप्रामाण्यकप्रत्यक्षेति- , 3 प्रत्यक्षमनुमानं च शास्त्रं च विविधागम् । त्र्यं सुविदितं कार्य धर्मशुद्धिमभीप्सता । 1 प्रत्यक्षविषयकतया. 2 साधनवश्व. 3 सिद्धेऽपि. 259 17* -