पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबलखण्ड नम् 265 , अन्यथा ' इदं रजतम् ' इति भ्रमोगप ' इयं शुक्तिः' इत्यातोप- अन्यथेति । एकवाक्यत्वादिप्रयुक्तस्यापेक्षणीयत्वस्याभावेन बाध्यत्व- सम्भवेऽपि प्रथमप्रवृत्तत्वमात्रेणोक्तन्यायेन प्राबल्याभ्युपगम इत्यर्थः । यत्तु ' प्रत्यक्षस्य प्रमात्वं फलपर्यन्तपरीक्षया निश्चितमिति न न्युन- बलत्वम्' इति तत्तुच्छम् ; उक्तपरीक्षासत्त्वेऽपि निश्चितप्रामा- ण्यकश्रुतिविरुद्धार्थकत्वेन स्वतस्सम्भावितदोपत्वेन च अप्रामाण्यसं- शयसम्भवादुक्तपरीक्षायाः स्वप्नादाविव प्रामाण्यानिश्चायकत्वात् । तृती- यतृतीये 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पारदैर्बल्यमर्थवि- प्रकर्षात्' इत्यधिकरणे श्रुत्यादीनां विरोधे पूर्वापेक्षया परं दुर्बलं पूर्व- सापेक्षतया विनियोजकत्वात्, श्रुत्यादिकं विना लिङ्गादेः विनियोजकत्वा- सम्भवात् । श्रुत्यादिकं कल्पयित्वा यथा विनियोजकं लिङ्गादिकं ततः पूर्वमेव लिङ्गादिनिरपेक्षश्रुत्यादिना विनियोगसम्भवे तदाकांक्षोच्छेदा- ल्लिङ्गादेः प्रवृत्त्यसम्भवात् । तत्र श्रुतिरङ्गाङ्गिभावबोधकतृतीयादिः, तत्कल्पक योग्यता लिङ्गं तत्कल्पकः पदयोस्सन्निधिःर्वाक्यं तस्कल्प- कोमयाकाङ्क्षा प्रकरणं, तत्कल्पकं पाठादिसादेश्यं स्थानं, तत्कल्पकं यौगिकमाध्वर्यवादिपदं समाख्येति । तत्र श्रुतिलिङ्गयोर्विरोधे 'ऐन्द्रया गार्हपत्यमुपतिष्ठते' इत्यादौ इन्द्रप्रकाशनसामर्थ्यरूपलिङ्गादैन्द्री नेन्द्राङ्गं, किन्तु श्रुत्या गार्हपत्याङ्गम् । न चाकानां प्रकृत्यर्थत्वेन निराकाङ्क्षाणा- मपि विकृतिमात्राकाङ्क्षया अतिदेशकल्पनवदैन्द्री गार्हपत्ययोः प्रकाश्य- मन्त्राकाङ्क्षोच्छेदेऽपि— इन्द्रस्य स्मृत्यर्थ मन्त्राकाङ्क्षयैव उक्तलिङ्गस्य ऐन्द्रीवनियोजकत्वमास्तामितिवाच्यम् । ध्यानायुपायान्तरेणापि स्मृति- सम्भवेन मन्त्रपर्यन्तमाकांक्षाविरहात् । यद्यपि स्तृतीयादिश्रुतिः केवलकरणत्पस्य बोधिका, न तु गार्हपत्यादीनरूपित करणत्वस्य, तस्य 'ऐन्द्रया गार्हपत्यम्, गार्हपत्यम्, इति श्रुतपदसन्निधि रूपवाक्येनैव , 1 प्रकाश्यप्रकाशकावृक्षोच्छेदेऽपि. ,