पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबलखडण्डनम् 'गार्हपत्ये पत्नीसंयाजान् जहोति इत्यादौ विशेषविहितगार्हपत्यादेः 'यदाहवनीये जुहोति' इति सामान्य विहिताहवना यादिभिः विकल्पो बाघो वेति संशये, प्रत्यक्षस्य 'शरमयं बर्हिः' इत्यादिशास्त्र- स्यानुमानिककुशाद्यतिदेशशस्त्रबाधकत्वं युक्तम्; तस्य तदपेक्षया शीघ्र- प्रवृत्तत्वात् । सामान्यविशेषशास्त्रयोस्तु द्वयोरपि प्रत्यक्षत्वात् । शीघ्र- प्रवृत्त्य विशेषेण तुल्यबलत्वात् तद्विहितयोर्विकल्प इति प्राप्ते, अवि- शेषेत्यादि सिद्धान्तः । होमत्वसामान्य जुहोतिवाच्यस्य सर्वहोमव्यक्तिषु सम्बन्धाल्लक्षणया अविशेषेण यत्सामान्यशास्त्रं विशेषबोधतात्पर्यकं तत्सन्दिग्ध विशेषपरत्वेन निर्णेतुमशक्यम् । अतो विशेषविशिष्टं विशे- षरूपेण विधायकं पदादिशास्त्रमारात् शीघ्रप्रवृत्तं प्राकरणिकहोमवि- शेषविषयकत्वात् पदाढिविशिष्टहोमविशेषोत्पत्तिवाक्यत्वात्, विषयान्तरे निरवकाशत्वाच्च सामान्यशास्त्रं तु अनारभ्याषीतत्वादुत्पन्नहोमविषयक - त्वात् पदहोमादिविशेषातिरिक्ते सावकाशत्वाच्च दुर्बलम् । पत्नीसंयाजा- दिविशेषशास्त्रं लक्षणां विनैव प्रवृत्तत्वादपि शीघ्रप्रवृत्तं, पत्नीसंयाजा- दिपदानां जातिवाचित्वाभावेन व्यक्तिविशेषशक्तत्वात् अत अतुव्यबलत्वा- द्विकल्पो न युक्तः । अतएव न समुच्चयः ; व्रीहियवादिवन्निरपेक्षकरण त्वेन पदादेराहवनयिस्य च विहितत्वाच्च । तस्माद्विकल्पस्य समुध्ययस्य वान्याय्यत्वाद्वाघ एव सामान्यशास्त्रविहितस्येति सूत्रार्थः । यद्यपि ब्रह्मादिद्रव्यं विना यागादिस्वरूपनिष्पत्तिरूपदृष्टकार्याभावात् तस्य दृष्टार्थत्वसम्भवेऽपि आहवनीयादिकं विनापि प्रक्षेपरूपहोमनिष्पत्त्यादि- रूपदृष्टकार्यसम्भवात् न तस्य दृष्टार्थतेति विभिन्नादृष्टरूपकार्य- जनकत्वेन समुच्चय एव युक्तः; एकेनापरजन्यादृष्टजननासम्भवात् । अतएव न 'देवताग्निशब्द क्रियमन्यार्थसंयोगात् इति सूत्रेण षष्ठे देव- तादीनां प्रतिनिधिर्निषिद्धः । अमेईष्टार्थत्वे तु प्रतिनिधिस्स्यादेव । 3 त्वात्तदपि. 4 सम्भवात्तस्यादृष्टार्थतेति. 1 प्रवृत्ति. 2 प्रवृत्तिक. 267 -