पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

268 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः न च 'यदाहवनीये जुहोति' इत्यस्मात् 'पदे जुहोति' इत्यस्य विशेषविषयत्वेन प्राबल्यवत् घटविषयसत्त्वग्राहिणः प्रत्यक्षस्य सामान्यतो द्वैतनिषेधकश्रुत्यपेक्षया प्राबल्यमिति वाच्यम्; सामान्यविशेष न्यायस्य निश्चितप्रमाणभावोभयविषयत्वात् । ' अन्यथा 'अयं गौरश्वः' इत्यादेरपि गौरवो न भवतीत्यादितः प्राबल्यं भवेत् । । अतएव चानूयाजा अदृष्टेनोपकुर्वन्तो नाम न होमादिभिरुपहोमैः विक- लप्यन्ते बाध्यन्ते वेत्युक्तं दशमे । तथाप्याहवनीयादे: होमं प्रत्यवश्यापेक्ष- णीयत्वाभावेऽपि अधारतारूपदृष्टोपकारजनकत्वात् दृष्टार्थतैव । एवमपि- नतस्यप्रतिनिध्यापत्तिः अवश्यापेक्षणीयदृष्टार्थस्यैव तत्स्वीकारात् । अतो न षष्ठोक्तिविरोधः । अदृष्टजनकत्वमप्याधारत्वं द्वारीकृत्य वाच्यम् । तच होमं प्रति पदादेराहवनीयस्य च निरपेक्षं प्रमितमिति तदन्यथानुप- पत्त्या समुच्चयाभावः विशेषविधिना सामान्यविधिरिव सामान्य निषेधोऽपि बाध्यते । अतो 'न हिंस्यात्' इत्यादौ वैधान्यहिंसानिषेध: ; इष्टानि- ष्टसाधनत्वयोरविरोधेऽपि पुण्यजनकत्वस्य पापाजनकत्वव्याप्यत्वात् । अतएव 'न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति' इत्या- दिस्मृतिः, 'अशुद्धमिति चेन्न, शब्दात्' इति व्याससूत्रं च । तथाच यथा पदहोमादिशास्त्रेणाहवनीयादिशास्त्रं बाध्यते, सामान्यविषयकत्वात्, तथा प्रत्यक्षेण श्रुत्यादीति शङ्कते – न च यदाहवनीयेति । भवेदिति । अत्र यथा 'न हिंस्यात्' इत्यादे: 'वैधान्यहिंसानिषेध परत्वं सम्भवति, हिंसात्वसामान्य रूपेण वैधान्यहिंसायामनिष्टसाधनत्व- बोधने लक्षणाविरहात् । नेह नाना' इत्यादौ तु सत्त्वप्रत्यक्षाविषय द्वैतसामान्याभावबोधकत्वं लक्षणयैव वाच्यमिति वैषम्यम् । अथ भावनाविद्यर्थत्वमते हिंसाकरण ककृत्यभावे शाब्दभावनाविषयत्वबोधे वाच्ये वैधान्यहिंसाकृतिसामान्याभाव एव लक्षणया बोध्य इति चेन्न ।