पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

272 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः न च यथा 'यत्किञ्चित्प्राचीनमग्रीषोमीयात्तेनोपांशु चरन्ति ' इत्यस्य यत्किञ्चिच्छब्दस्य यत्किञ्चित्प्रकृतवाचित्वेन सामान्य- विषयत्वेऽपि दीक्षणीयाव्यतिरिक्ते सावकाशत्वात् 'यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुश्रूयात् इत्यनेन निरव- काशेन सङ्कोचः, तथा प्रत्यक्षेण निरवकाशेन वृत्यन्तरेणा- नेकार्थत्वेन वा विषयान्तरपरत्वेन सावकाशायाः श्रुतेः सङ्कोच: दीक्षणीयादिसकलप्राचीनपदार्थजन्यापूर्वसाधनोहेशेन उपांशुत्वविधान- प्रसक्तावपि ' यावत्या' इत्यादिविशेषविहितस्वरावरुद्धदीक्षणीयाप्रायणी- यादिभिन्नप्राचनिपदार्थजन्यापूर्वसाधनोद्देशेन उपांशुत्व विधायकतया साव- काशं यत्किञ्चिदित्यादिवाक्यं सङ्कुच्यते, यथा यावत्येत्यादिना, तथा प्र- त्यक्षेण तदविषये सावकाश श्रुत्यादिकोच इति शङ्कतेन च यथेति । निरवकाशेनेति । दक्षिणीयादिजन्यापूर्वसाधनोद्देशेन स्वरविशेषविधाय- कत्वेन दीक्षणीयादन्यत्रानवका शेनेत्यर्थ | स्थितं हि नवमद्वितीयाधिकरण- द्वितीयवर्णके ' यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्रूयान्मद्रं प्रायणीयायां मन्द्रतरमातिथ्यायामुपांशूपसत्सू उच्चे: प्रवर्येण उच्चैरमीषोमी- य' इति । ज्योतिष्टोमे श्रुताः स्वरविशेषाः दीक्षणीयादिजन्यापूर्वसाधनोद्दे- शेन विधीयन्ते, ज्योतिष्टोमजन्यापूर्वप्रयोज का पूर्वसाघनीभूतदीक्षणीयाद्युद्दे- शेन वेति संशये साक्षात्पुरुषार्थासाधनत्वाद वान्तरापूर्वमात्रं नोद्देश्यघ- टकमिति द्वितीयपक्षे प्राप्ते, पश्चादिवत्परम्परया पुरुषार्थसाधनस्याप्युद्देश्य त्वसम्भवात् ज्योतिष्टोमापूर्वघटितोक्तरूपापेक्षया आवश्यकत्वाल्लाघवाच्च दीक्षणीयादिजन्यावान्तरापूर्वसाघनत्वेनैव उद्देश्यता' । एवं प्रोक्षणादि- रूपसन्निपत्योपकारकाङ्गानामुत्पवनादिरूपा धर्मा प्रोक्षणादिजन्यत्रीह्यादि- निष्टापूर्वसाधनोद्देशेन, प्रयाजाद्यारादुपकारकाङ्गनामभिक्रमणादिरूपाधर्माः प्रयाजादिजन्यापूर्वसाधनोद्देशेन विधीयन्ते । एवंच ज्योतिष्टोमविकारं 1 उद्देश्यत्वात्.