पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

273 परिच्छेदः] प्रत्यनङ्गभूतेषु मेष्यादिद्रव्येषूपाकरणादीनामूहः । पूर्वपक्षे तु ज्योतिष्टोमा- पूर्वस्थानापन्नापूर्वाभावेन प्राकृत कार्यभावादनूहः । तेषु दैक्षधर्मानतिं- देशश्च । यत्तु भाष्ये –'अश्वमेधे त्रैषातवीया दीक्षणीया भवति' इति वचनेन यजमानसंस्कारे दीक्षणीयाकार्ये विहितत्रेधातवीयायां दीक्षणीयाधर्मप्राप्तिः पूर्वपक्षे, सिद्धान्ते तु प्रसिद्धत्रैधातवीयाधर्मप्राप्तिः, इति प्रयोजनमुक्तं, तत्र पूर्वपक्षवत् सिद्धान्तेऽपि स्थानापत्तै बाधकाभा- वात् । यदितु स्थानापत्त्यतिदेशापेक्षया त्रिविधातिदेशो बलवानिति अष्टमोक्तेः नामातिदेशन प्रसिद्ध त्रैधातवीयाधर्मप्राप्तिरिति शङ्कयेत, तदा तत्पूर्वपक्षेऽपि तुल्यम् । वस्तुतो नेयं त्रैधातवीया, प्रसिद्धत्रैषावीयातः कर्मान्तरं, सत्यप्युपादेयगुणायोगे आख्यातासामाधिकरण्यात् । अतः सघर्मिकैव यजमानसंस्काराय विधीयत इति धर्मस्यानाकाङ्क्षतत्वात् न स्थानापत्यतिदेश इति । अत्र यद्यपि दीक्षणीयाया: यार्जेवदि- कत्वेनोपांशु यजुषेत्यनेनोपांशुत्वं, तथापि तच्चोदकेन बाध्यते । प्राक् स्विष्टकृतः प्रथमस्थाने’ मध्यमेनेडाया शेषे तृतीयस्थानेनत्येतत् स्थल - वैपरीत्यस्य दर्शपूर्णमासीयस्य चोदकप्राप्तत्वात् चोदकाश्रितस्य प्रयो- गवचनाश्रितोपांशुत्वादिनाना वेदस्वरापेक्षया बलवत्वात् तदपि यत्कि- ञ्चित्प्राचीन मित्यादिना बाध्यते, तदपि यावत्येत्यादिनेति बोध्यम् । स्विष्टकृतः प्राक् प्रथमस्थानेन नीचैः स्वरेण प्राक् स्विष्टकृदुत्तरं मध्य- मेन स्वरेण शेषे इडोत्तरं तृतीयस्थानिनोच्चैस्स्वरेणेति दर्शपूर्णमासी- यवाक्यार्थः । न चाग्नीषोमीयात्प्राचीनासु दक्षिणायाप्रायणीयोपसत्सु ' यावत्येत्यादिना स्वरविशेष विहिते यत्किञ्चिदित्याद्यपि निर्विषयक- त्वात् निरवकाशमुपसत्सु उपांशुत्वस्यानुवादश्च स्यात् इति वाच्यपू ; यत्किाञ्चदित्यादेः दीक्षणीयाद्यङ्गेषु विधायकत्वात्, यावत्येत्यादेः , 4 साध्यते. , प्रत्यक्षबलखण्डनम् 1 उद्देश्यत्वात्. 2 त्रैधातवीयातिदेशो. 3 प्रथमस्थानेन. 5 इडायाः प्राक्. 6 प्रायणीयाभिन्नोपसत्सु.