पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धि याख्यायां गुरुचन्द्रिकायां [ प्रथमः एकदैवत्यसुब्रह्मण्याविषयेति । तस्मात्काम्येष्टिकाण्डे ' अनये दात्रे पुरोडा - शमष्टाकपालं निर्वपेदिन्द्रायप्रदात्रे पुरोडाशमेकादशकपालं, दधिमधुघृत- मापोधानास्तत्संसृष्टं प्राजापत्यं पशुकामः' इति श्रुते चित्रोष्टबद्दध्यादि द्रव्यकानेकयागा आग्नेयपुरोडाशधानायागयो रामेयविकारत्वादमावास्या- पौर्णमास्युभयधर्मकत्वन न वक्ष्यमाणविरोधः । ऐन्द्रस्यैन्द्रामविकारत्वाद्द- घियागस्य दधियागविकारत्वादमावास्याधर्माः | मधुघुतोदकानां तु उपां- शुयाजविकारत्वात् पौर्णमासधर्माः । तदिह पञ्चसु सहक्रियमाणेषु आज्यभागयोः वार्त्रघ्नीवृथन्वतीमत्राणां हविरभिमर्शने चतुर्होतृपञ्चहोतृ- मन्त्रयोश्च विरोधः । ‘वार्त्रघ्नी पौर्णमास्यामनूच्येते वृथन्वती अमावास्या- याम्' इत्याभ्यां पौर्णमास्यङ्गाज्यभागयोः वार्त्रघ्नयोरमावास्यामाज्यभागयो- र्वृथन्यत्योः व्यवस्थयाप्रापणात् पौर्णमास्यमावास्याविकाराङ्गाज्यभागेष्वपि तासां व्यवस्थयैव प्राप्तेः । एवं 'चतुर्होत्राप्रौर्णमासीमभिमृशेत्पञ्चहोत्रामा- बास्यामित्याभ्यामपि 'पृथिवी होता चौरध्वर्युः रुद्रोऽमीत् बृहस्पतिरुप- वक्ता' इति चतुर्होतृमन्त्रस्य पौर्णमासीहविरभिमर्शने, 'अग्निर्होता अश्विनावध्वर्यू; त्वषाऽमीत् मित्र उपवक्ता' इति पञ्चहोतृमन्त्रस्य अमावास्याहविरभिमर्शने विहितत्वात्तत्तद्विकारेष्वपि तथा प्राप्तत्वात् । न चाज्यभागयोः हविरभिमर्शनस्य च सर्वानुद्दिश्य तन्त्रेणैकमन्त्रेण करणे मन्त्रान्तरानुरोधेन पुनःकरणं युक्तम्; गुणानुरोधेन प्रधानावृत्तेरन्या- य्यत्वात् । अत' एैन्द्रदनोः प्रथमोक्तत्वेन मुख्यत्वात् असञ्जात- विरोधित्वात्तदनुग्रहायामावास्याधर्मा वृधन्वतीपञ्चहोर्नृत्रा एव कार्या इति प्राप्ते – मुख्यधर्मानुग्रहो यद्यपि प्रथमं बुद्धः; तथापि पाश्चात्यप- र्यालोचनेन बहूनां धर्मबाघस्यायुक्तत्वात् भूयोनुग्रहानुरोधेनाल्पसङ्ख्यानां - भूयोधर्मेषु प्रसङ्गित्वमिति पौर्णमासीविकाराणां भूयसां धर्मा वार्त्रघ्नी-. चतुर्होत्रमा कार्याः । 'आसन्नानि हवींष्यभिमृशति' इति वच- 2 अर्थ. 278 1 सप्तसु.