पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] विद्याविद्याभेदेन प्रत्यक्षबलखण्डनम् विद्वदविद्वत्पुरुषभेदेन च विरोधाभावात् ॥ इति प्रत्यक्षप्राबल्यनिराकरणम् 281 विरोधः ; तत्राह — विद्येति । विद्या तात्त्विकविषयकमद्वैत श्रुतिजन्य- ज्ञानं, अविद्या व्यावहारिकविषयकं द्वैतप्रत्यक्षादीत्यर्थः - विद्वदिति । अविदुष एव प्रत्यक्षादौ दोषवशात् तात्त्विक प्रामण्यव्यवहारः । निर्दो- षस्थ विदुषस्तु विद्यायामेव तथ्यवहार इति नोक्तविरोध इत्यर्थः ॥ , अत्रेदमालोचनीयम्———बिप्रतिषिद्धेत्यायुक्ताधिकरणोत्तरं 'मुख्यं वा पूर्वचोदनाल्लोकवत् इत्यधिकरणे स्थितं अध्वरकल्पायामिष्टौ ‘आमावैष्णवमेकादशकपालं निवेपेदपराह्ने, सरस्वतीमाज्यस्य यजेत' इति श्रुतयोराद्यस्यौषध' द्रव्यकत्वाद्विदैवत्यत्वाच्च ऐन्द्रामविकारः, तस्या- पि वैकल्पिकद्वादशकपालद्रव्यत्वाच्च । सरस्वती तु उपांशुयाजविकारः, आज्यद्रव्यकत्वात् । तथाचाद्यस्य दार्शिकम् द्वितीयस्य पौर्णमासिकं तन्त्रमित्याज्यभागमन्त्रहविरभिमर्शनमत्राणां पूर्ववत् विरोधे मुख्यत्वादा- द्यायांदार्शिकाज्यभागादिमन्त्राः कार्याः, मुख्यत्वन्यायापवादकस्यामुख्य- भूयस्त्वादेरभावादिति सिद्धान्तयित्वा' वार्तिकादौ मतान्तरमुक्तम् । तत्र ' विप्रतिषिद्धेत्यादि – मुख्यं वे' त्यादिसूत्राभ्यामेकाधिकरणम् । तत्रा- मुख्यभूयस्त्वं मुख्यत्वापवादकमिति पूर्वसूत्रेण पूर्वपक्षयित्वा मुख्यत्व- मेवामुख्यभूयस्त्वापवादकं, लोके बहुभिरप्यमुख्यैर्मुख्यस्याब / धनात् प्र- त्युत विपरीतदर्शनादिति । यक्तं चैतत् ; भूयसां दुर्बलत्वे भूयस्त्वस्या- किञ्चित्करत्वात्, 'शतमप्यन्धानां न पश्यति' इति न्यायात् । उक्तं हि सत्प्रतिपक्षस्थले न्यायभाष्यादौ - 'व्याप्तिपक्षधर्मते बलं, न तु भूयस्त्वम् ' इति । दुर्बलत्वात् द्वैतसत्त्वप्रत्यक्षादेः अनिश्चितप्रामाण्यकत्वादिना श्रुतेर्नि- 1 श्रुतयोराय (स्यौ) औषध. 2 सिद्धान्त इति. -