पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षस्योपजीव्यत्वभङ्गः बहिरिव । तथा च व्यवहारदशामात्राबाध्यत्वं देहात्मैक्यसाधारणं परीक्षितप्रमाणे व्यवस्थितमिति कथमत्यन्ताबाध्यत्वाभावग्राह- कांगमानुमानयोः प्रवृत्तिः न स्यात् । तस्माविश्वासप्रमाणतदा- भासव्यवस्था जीवेशभेदादिकं च व्यावहारिकमित्युपपअमेव सर्वं जगन्मिध्येति । ननु - प्रत्यक्षाप्रामाण्ये तत्सिद्धस्य व्याप्तया- देर्बाधेनानुमेयादेः अनुमित्यादिप्रामाण्यस्य च बाधः अनुमेयादे- यतयादिना अनुमितिप्रामाण्यादिना च समानयोगक्षेमत्वात् । अन्यथा प्रातिभासिकव्याप्तयादिमता वाष्पाभ्यस्त धूमन तात्त्विको- व्यावहारिको वाऽग्निः व्यावहारिकव्याप्तयादिमता धूमेन तात्त्वि- कोsग्निः व्यावहारिकेणाबाधेन विरुद्धधर्माधिकरणत्वेन च विश्वस्य अन्वितं देशः तत्तद्विषयरूपः । तथाच परीक्षया स्वदेशस्वकालकालीनं 1 प्रामाण्यघटकमबाध्यत्वं व्यवस्थाप्यत इत्यर्थः । वह्निरिवेति । यथोद- यनादिमते धूमलिङ्गकवड्यनुमितौ धूमकालीन वह्निर्विषयः तथा परीक्षा- लिङ्गकप्रामाण्यघटकाबाध्यत्वानुमितौ परीक्षाकालीनमबाध्यत्वमित्यर्थः । अथवा सजातीयसंवादविसंवादावबाधितविषयकत्वेन निश्चितज्ञानस्य समानविषयकत्वविरुद्धविषयकत्वरूपैौ । तत्र बाधितत्वसामान्याभाव- स्याशक्यग्रहत्वेन उक्तत्वात् तत्तत्कालीन बाधितत्वाभावो निवेश्यः | तथाच तद्घटितेन संवादेन तद्घटितमेवानुमेयम् । न तु बाधितत्व- सामान्याभावघटितं, अनुमितिविधेयतावच्छेदकस्यैव व्याप्तिनिरूपक- तावच्छेदकत्वात् । व्यभिचर्यमाणत्वादशक्यग्रहत्वाच्च । एवं तत्तत्काले तथा निश्चितं यदद्वैतश्रुत्या जघन्य ज्ञानं तद्विरुद्धविषयकत्वाभावेना प्युक्तप्रमात्वं अनुमेयं तत्तत्काले दोषत्वेन गृह्यमाणं यत् तदभावेनापि तदेवानुमेयमित्यर्थः । प्रमाणे प्रमाणविषये । व्यावहारिकेणेति । व्यावहारिकेण अबाधेन विश्वस्य तात्त्विकं सत्त्वम् । व्यावहारिकेण 2 1 स्वदेशकालगतं. 2 श्रुत्याद्यजन्यं. A.S.V. 19 289