पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षस्योपजीव्यत्त्वभङ्गः प्रत्यक्षस्यानुमानबाध्यत्वविचार: , किञ्च विपक्षबाधकसचिवमनुमानमपि प्रत्यक्षबाधकम् । नन्वेवमपि "औदुम्बरीं स्पृवोद्गायेत्, " ऐन्द्रया गाईपत्य- मुपतिष्ठते, शरमयं बर्हिर्भवति" इति श्रुतित्रयग्राहि प्रत्यक्षं यथाक्रमं 'औदुम्बरी सर्वा वैष्टयितव्या' इति स्मृतिरूपेण न व्यावहारिकम् । यत्स्वरूपमित्यादिकं युक्तमेव; अनुमित्यादेस्तात्त्विक प्रामाण्याभावस्येष्टत्वात् । स्वरूपसिद्ध्यर्थमित्यादेः अर्थवर्णनं तु शोभते ; अनुभवादिप्रामाण्यस्य स्मृत्यादिप्रामाण्यं प्रति योगक्षमसाधारणकारणत्वे मानाभावात् अस्मदुक्तरीत्या स्वरूपसिद्व्यादिशब्दार्थसम्भवात् । परी- क्षयेत्याद्यपि युक्तम् ; मिथ्यात्वानुमितेः घटादिनिषेधस्य बोधक वेऽपि तस्य तात्त्विकत्वेन अतात्त्विक घटादिस्वरूपज्ञानस्य उपजीव्यस्याविरोधात्, घटादिदेशकालयोस्तत्समानसत्ताकतन्निषेधबोधन एव' विरोधात् । अन्यथा रूप्यादिमिथ्यात्वबोधेऽपि तदापत्तेः । मिथ्यात्वग्राहकमानेन घटादि- ज्ञानस्योपजीव्यत्वेऽपि तदीयतात्त्विकप्रामाण्यस्य अनुपजीव्यत्वात् उप- जीव्यस्यापि परीक्षितस्यैव प्राबल्यात् । परीक्षाया: 3 स्वसमानकालीना- बाध्य मात्र व्यवस्थापकत्वस्य त्वदीयरोदन सहस्रेणाप्यपरिहारादिति । तस्मा- द्यत्किञ्चिदेव प्रलपन् स्वकीयानामेव मान्योऽसि ॥ सारस्वतैस्तर्करनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तखण्डानामखण्ड्यक्षोपजीव्यता || इति प्रत्यक्षस्योपजीव्यत्वभङ्गः, —— P 295 औदम्बरम् । उदुम्बरवृक्षविकाररूपां स्थूणाम् । ऐन्द्रयेति । 'कदाचन स्तरीरसि नेन्द्र सञ्चसि दाशुषे' इत्यादिऋचेत्यर्थः । गार्हपत्यं त्रेतान्तर्गतमभिविशेषम् । वेष्टनश्रुत्यनुमानेनेति । ज्ञाय- 1 बाधक. 2 तन्निषेधत एव. 8 परीक्षया.