पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] प्रत्यक्षस्यानुमानबाध्यत्त्वम् 297 त्तरोत्तरबाधो न स्यादिति वाच्यम्; तेषु पूर्वेणाङ्गाङ्गित्वे बोषिते तदा- कांक्षोच्छेदेनोत्तराप्रवृत्तावपि प्रकृतस्मृतेः स्वमूलश्रुत्याकांक्षायाः प्रत्यक्ष- स्मृत्योच्छेदाभावेन तदनुमानसम्भवादिति प्राप्ते, कारणान्तरसत्त्वेऽपि जिज्ञासां विना अनुमित्यादेरनुत्पत्त्या परोक्षज्ञानमात्रे अनुमित्यर्थापत्त्योर्वा जिज्ञासा हेतुः । अतो वेष्टितत्वाभावेन स्पर्शश्रुतिलब्धेनौदुम्बर्याः परिच्छिन्नत्वात् वेष्टनजिज्ञासाविरहेण वेष्टनस्मृत्या न मूलीभूतश्रुत्यनु- मितिः । किंच व्रीहियवादिशा स्त्रयोस्तुल्यबलत्वेन विकल्पसम्भवाद्वि- रोघपरिहारेऽपि प्रकृते अनुमेयश्रुतेः सापेक्षत्वकल्प्यत्वादिना दुर्बल- त्वान्न तथेति सान प्रमाणम् । न च वस्त्रस्पर्शने स्पर्शश्रुत्यर्थ - सिद्धिः सम्भवतीति वाच्यम्; स्पार्शनप्रत्यक्षस्य स्पृशधात्वर्थत्वात्, बेष्टिते तु त्वक्संयोगाभावेन तदसम्भवात् । एवं प्रत्यक्षश्रुत्य- विरुद्धायामपि यस्यां स्मृतौ लोभादिदृष्टमूलत्वसम्भवः साऽप्यप्रमाणम् । यथा 'वैसर्जनहोमीयं वासोऽध्वर्युः प्रतिगृह्णाति, यूपहस्तिनो दानमाच- रन्ति' इति । यूपहस्ती यूपपरिव्यानवस्त्रम् । अत एव 'अपिवा कारणाग्रहणे प्रयुक्तानि ' इत्यत्र लोभादिदृष्टकारणासम्भव एवाचारे श्रुतिमूलकत्वं वक्ष्यत इति भाष्यम् । नेदं युक्तम् । तथाहि - प्रत्यक्ष श्रुतिविरोधे स्मृतिमूलश्रुतेः अभावः साधकाभावात्, बाघ- काद्वा । नाद्यः; मन्वादिस्मृताविव शिष्टपरिग्रहादे: साधकत्वात्, जिज्ञासां विनाऽप्यनुमित्यादिदर्शनेन तस्या असाधकत्वात्, अवेष्टि- तत्वेनौदुम्बर्याः परिच्छेदेऽपि स्मृत मूलजिज्ञासासम्भवाच । नान्त्यः; बाधकं हि स्पर्शश्रुतिर्वा, वेष्टनश्रुत्यदर्शनं वा । नाद्यः ; व्रीहिय- वादिवत्तदुपपत्तेः । नान्त्यः; मन्वादीनां तद्दर्शनसम्भवात् । किञ्च उक्तस्मृतिमूलश्रुतिः प्रत्यक्षैव 'तामूर्ध्वदेशेन परिवेष्टयति' इति साङ्ख्यायन शाखाम्नानादित्युदाहरणमपि दुर्लभम् । अपिच स्मृतेरु. साख्यायनि,